SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ जमकर पनायां तु चतुर्थे पदे ७५ पत्रे-"विजयवेजयंतजयंतअपराजिएसु णं भंते ! देवाणं केवइयं कालं ठिती पसत्ता ? गोयमा! जहन्नेणं एकतीसं सागरोवमाई उक्कोसेणं तेत्तीसं सागरोवमाई" इति ॥ ४ ॥ समवायाङ्गसूत्रे ४६ पत्रे कृष्णजीवोऽममस्त्रयोदशस्तीर्थङ्करो भावीत्युक्तम् , अन्तकृत्सूत्रे तु-" इहेव जंबुद्दीवे दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए पुप्फेसु जणवएसु सतदुवारे णगरे बारसमो अममो णाम अरहा भविस्सइ” इति ॥ ५॥ तथा ज्ञातानुसारेण द्रौपदी पञ्चमकल्पं गता। तथैव च श्रीहैमनेमिचरित्रे द्वादशे सर्गे-"आकर्ण्य तद्गुरुशुचो विमलाद्रिमीयुः, पांडोः सुता विदधिरेऽनशनं च तत्र । उत्केवलाः शिवमगुर्द्वपदात्मजा तु, सा ब्रह्मलोकमगमत्परमर्द्धिधाम ॥१॥" एवमेव च श्रीशत्रुञ्जयमाहात्म्येऽपि-"पांडवानामनुप्रापुमुनिपश्चशतानि च । सहस्रे द्वे शिवागारं, प्राप्तानन्तचतुष्टयम् ॥१॥ द्रौपदी पञ्चमं कन्पमवाप्यानल्पपुण्यभृत् । अन्ये तु मुनयः केचिच्चिवं स्वर्ग च केचन ॥२॥" इति । उत्तराध्ययनद्वितीयाध्ययनचतुर्दशसहस्यां तु-"दोवई वि रायमईसगासे पव्वजं काऊण अच्चुयकप्पं गया" इति ॥ ६ ॥ “पव्वइओ जो माया-सम्मत्तिउ वीरपायमूलंमि । सो अभयकुमारमुणी, पत्तो विजयं वरविमाणं ॥१॥" इति श्रीऋषिमण्डलसूत्रे । हैमवीरचरित्रे तु द्वादशे सर्गे-“ विविधाभिग्रहपूर्व, पालयित्वा चिरं व्रतम् । मृत्वा सर्वार्थसिद्धेऽभूदभयः प्रवरः सुरः ।। १॥” इति ॥ ७ ॥ " श्रुत्वा तां देशनां भर्तुः, सम्यक्त्वं श्रेणिकोऽश्रयत् । श्रावकधर्म त्वभयकुमाराद्याः प्रपेदिरे । ७६ । " इति श्रीहेमवीरचरित्रे ६ सर्गे। इत्यत्र श्रीवीराच्छेणिकेन सम्यक्त्वं प्राप्तमित्युक्तम् । विंशोत्तराध्ययन ५८ गाथावचूाँ तु "एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तीए । सोरोहो सपरियणो सबंधवो, धम्माणुरत्तो विमलेण चेयसा ॥ ५॥" विमलेन विगतमिथ्यात्वमलेन चेतसो Jain Education Intel alal For Private Personal Use Only ww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy