________________
लसति नैवमिन्द्रादिनामश्रवणात् , यथा तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादाविति, एवमन्यदपि वाच्यम् । इत्यनुयोगद्वारसूत्रहमवृत्तौ १४८ प्रतौ ११ । १२ पत्रे ॥१॥
केचिच्च श्रावकश्राविकाणां मुखवस्त्रिका निषेधयन्ति, अपरे च रजोहरणं भूमिप्रमार्जनमिति कृत्वा मुखाने न स्थापनीयं किन्तु भूम्यामेव स्थापनीयम्, इत्यादि स्वस्वान्तःकल्पनाकवलितशुद्धधिषणाः स्वात्मनां परेषां मुग्धबुद्धीनां चानन्तभवभ्रान्तिहेतवो भवन्ति, ततस्तदुपकाराय रजोहरणमुखवस्त्रिकादीनां सत्तासूचकाक्षराणि तेषां यथोचितव्यापारणाक्षराणि च लिख्यन्ते
से किं तं लोउत्तरियं भावावस्सयं जन्मं समणो वा समणी वा सावत्रो वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिब्वज्झवसाए तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अन्नत्थ कत्थइ मणं अकुव्वमाणे [ उव्वत्ते जिणवयणधम्माणुरागरत्तमणे ] उभो कालं आवस्सयं करेइ सेतं लोगुत्तरियं भावावस्सयं, सेतं नोआगमओ भावावस्सयं ।। इति । वृत्तिर्यथा-'से किं तं लोउत्तरियं' इत्यादि, अत्र निर्वचनम्-'लोउत्तरियं भावावस्सयं जम' इत्यादि, 'जमं' ति णमिति वाक्यालङ्कारे, यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावा- 12 वश्यकमिति सण्टङ्कः, तत्र श्राम्यतीति श्रमणः-साधुः, श्रमणी-साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावक:-श्रमणोपासकः, श्राविका-श्रमणोपासिका, वाशब्दाः समुच्चयार्थाः, तस्मिन्नेवावश्यके चित्तं-सामान्योपयोगरूपं यस्येति स तच्चित्तः, तस्मिन्नेव मनो-विशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्या-शुभपरिणामरूपा यस्येति स तल्लेश्यः,
सा
Jain Education B
For Private & Personel Use Only
www.jainelibrary.org
o na ITA