________________
रत्नाकरः
॥११८॥
विचार- I तथा तदध्यवसितः-इहाध्यवसायोऽध्यवसितम् , ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवावश्यकेऽध्यवसितं क्रियासम्पा-
दनविषयमस्येति तदध्यवसितः, तथा तत्तीब्राध्यवसाय:-तस्मिन्नेवावश्यके तीव्र-प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य सः तथा, तथा तदर्थोपयुक्तस्तस्य-आवश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः प्रशस्ततरसंवेगविशुद्धयमानस्तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः, तथा तदर्पितकरणः, करणानि-तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्-आवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि येन स तथा, सम्यक् यथास्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभावितस्तस्य-आवश्यकस्य भावना-अव्यवच्छिन्न-पूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भावितो - अङ्गाङ्गिभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रापि मनोकुर्वन्नुपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन् , एकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्पप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणीश्राविकयोरपि योज्यानि, तस्माचञ्चित्तादिविशेषणविशिष्टाः श्रमणादय उभयकालं-उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावमाश्रित्य भावश्चासावावश्यकं चेति वा भावावश्यकम् , अत्राप्यवश्यं करणादावश्यकत्वम् , तदुपयोगपरिणामस्य च सद्भावाद्भावत्वम् , मुखवत्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वानोबागमत्वं भावनीयम् । 'सेतं' इत्यादि निगमनम् । तदेवं स्वरूपत उक्तं भावावश्यकम् । इत्यनुयोगद्वारसूत्रहमवृत्तौ १४८ प्रतौ २४ पत्रे ॥२॥
अथ प्रमाणाङ्गुलखरूपं जिज्ञासया लिख्यते--
॥११॥
Jain Education in
a
For Private & Personel Use Only
| www.jainelibrary.org