________________
विचार
॥११७॥
Jain Education Intern
नामस्थापनयोरभेदं पश्यन्निदमाह - ' नामट्टबणाणं को पइविसेसो ' त्ति, नामस्थापनयोः कः प्रतिविशेषो १ न कश्चिदित्यभिप्रायः, तथाह्यावश्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथावश्यकादि नाम क्रियते, तत्स्थापनापि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमात्रे क्रियते, अतो भावशून्ये द्रव्यमात्रे क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह'नाम वहियं ' इत्यादि, नाम यावत्कथिकं स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराप्युपरमते, स्थापना पुनरित्वरा-स्वल्पकालभाविनी वा स्यात् यावत्कथिका वा, स्वाश्रयद्रव्येऽवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते, काचित्तु तत्सत्तां यावदवतिष्ठते इति भावः तथाहि - नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावत्स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादिर्वा समस्ति तावदवतिष्ठते इति तद्यावत्कथिकम् स्थापना त्वावश्यकत्वेन योऽक्षः स्थापितः सक्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते पुनरपि च राजादित्वेनेत्यल्पकालीना, शाश्वतप्रतिमादिरूपा यावत्कथिका, तस्याचार्हदादिरूपेण सर्वदा तिष्ठतीति स्थापना इति व्युत्पत्तेः स्थापनात्वमवसेयम्, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थापयमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः । अत्राह -ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनात्सत्यं, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु कचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः, उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनं, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि - यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषितः सन्निहितशचीवज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद्भावः सम्मु
For Private & Personal Use Only
रत्नाकरः
॥११७॥
w.jainelibrary.org