SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ वा चित्रकर्मणि वा यावद्वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा 'आवस्सए' ति आवश्यकतद्वतोरभेदोपचारात्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा, कथम्भूताः ? अत उच्यते-आवश्यकक्रियावानावश्यकाक्रयावन्तो वा 'ठवणा ठविजइ 'त्ति स्थापनारूपं स्थाप्यते-क्रियते तत्स्थापनावश्यकमित्यादिपदेन सम्बन्धः, इति समुदायार्थः, काष्ठकर्मादिष्वावश्यकक्रियां कुर्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थापनावश्यकमिति तात्पर्यम् । अधुनाऽवयवार्थ उच्यते-तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म काष्ठनिकुट्टितं रूपकमित्यर्थः, चित्रकर्म-चित्रलिखितं रूपकम्, 'पोत्थकम्मे व ति पोत्थं-पोतं वस्त्रमित्यर्थः, तत्र कर्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं-पुस्तकं तच्चेह सम्पुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं-ताडपत्रादि तत्र कर्म-तच्छेदननिष्पन्न रूपकम्, लेप्यकर्म-लेप्यरूपकम् , ग्रन्थिम-कौशलातिशयावन्थिसमुदायनिष्पादितरूपकम् , वेष्टिमं-पुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम् , अथवा एकं द्वयादीनि वा वस्त्राणि वेष्टयन् कश्चिद्रूपकमुत्थापयति तद्वेष्टिमम् , पूरिमं-भरिमं पित्तलादिमयप्रतिमावत्, सङ्घातिमं-बहुवस्त्रादिखण्डसङ्घातनिष्पन्न कञ्चकवत् , अक्ष:-चन्दनको, वराटकः-कपर्दकः, अत्र वाचनान्तरेऽन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः पक्षान्तरसूचकाः; यथासम्भवमेवमन्यत्रापि एतेषु काष्ठकमोदिष्वावश्यकक्रियां कुर्वन्त एकादिसाध्वादयः सद्भावस्थापनयाऽसद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकम् , | तत्र काष्ठकादिष्वाकारवती सद्भावस्थापना साध्वाकारस्य तत्र सद्भावात् , अक्षादिषु त्वनाकारवती असद्भावस्थापना साध्वाद्याकारस्य तत्रासद्भावादिति, निगमयन्नाह-'सेतं ' इत्यादि, तदेतत्स्थापनावश्यकमित्यर्थः । अत्र Jain Education Internationa For Private & Personel Use Only INTww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy