SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ११६ ॥ से किं तं ठवणावस्सयं ? ठवणावस्त्रयं जनं कटुकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्यकम्मे वा ४ गंथिमे ५ वेढा ६ पूरिमे वा ७ संघाइमे वा ८ अक्खे वा ६ वराडए वा १० एगो वा अगो वा सम्भावटुवणाए वा असम्भाववणाए वा आवस्सए त्ति ट्ठवणा ठविजह से तं ठवणावस्सयं । नामट्टत्रणा को पइविसेसो १ नामं श्रावकहिथं, ठवणा इत्तरिया वा होजा आवकहिया वा ।। इति । वृत्तिर्यथा - इदानीं स्थापनावश्यक निरूपणार्थमाह से किं तं ' इत्यादि. अथ किं तत्स्थापनावश्यकं ? इति प्रश्ने सत्याह- 'ठवणावस्सयं जां' इत्यादि, तत्र स्थाप्यते-अमुकोऽयमभिप्रायेण क्रियते निर्व इति स्थापना - काष्ठकर्मादिगतावश्यकवत् साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकम् स्थापनालक्षणं च सामान्यत इदम् " यत्तु तदर्थवियुक्तं, तदभिप्रायेण यच्च तत्करणि, लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालं च ॥ १ ॥ " इति, विनेयानुग्रहार्थमत्रापि व्याख्या - तुशब्दो नामलक्षणात्स्थापनालक्षणस्य भेदसूचकः सचासावर्थश्च तदर्थो भावेन्द्रभावावश्यकादिलक्षणः तेन वियुक्तं-रहितं यद्वस्तु तदभिप्रायेण क्रियते - स्थाप्यते तत्स्थापनेति सम्बन्धः । किंविशिष्टं यदित्याह यच्च तत्करणि तेन भावेन्द्रादिना सह करणि:- सादृश्यं यस्य तत्तत् करणि- तत्सदृशमित्यर्थः, चशब्दात्तदकरण चाचादिवस्तु गृह्यते, अतत्सदृशमित्यर्थः, किं पुनस्तदेवंभूतं वस्तु इत्याह- लेप्यादिकर्मेति - लेप्यादिपुत्तलिकादीत्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि वस्तु गृह्यते, अक्षादि वानाकारं, कियतं कालं तत्क्रियते इत्याह- अल्पः कालो यस्य तदल्पकालंइत्वरकालमित्यर्थः, चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत्स्थापना, इति तात्पर्यमित्यार्यार्थः || १ || इदानीं प्रकृतमुच्यते-' जां' इति, यमिति वाक्यालङ्कारे, यत्काष्ठकर्मणि Jain Education Internal For Private & Personal Use Only रत्नाकरः ॥१९६॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy