________________
Ile
रत्नाकरः
विचार
द्धिनिद्रोदयभावेऽपि नावियते तथा जीवस्वाभाव्यात् । तथा चाह- जइ पुण' इत्यादि, यदि पुनः सोऽपि अनन्तो भाग
आवियते तेन तर्हि जीवोऽजीवत्वं प्राप्नुयात् जीवो हि नाम चैतन्यलक्षणः, ततो यदि प्रबलश्रुतावरणस्त्यानर्द्धिनिद्रोदयभावे ॥११॥d चैतन्यमात्रमप्यात्रियते तर्हि जीवस्य स्वस्वभावपरित्यागादजीवतैव सम्पनीपद्यते न चैतदृष्टमिष्टं वा, सर्वस्य सर्वथा स्वभा
वातिरस्कारात् । अत्रैव दृष्टान्तमाह-' सुट्टवि ' इत्यादि सुष्वपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः, इयमत्र भावना-यथा निविडनिविडतरमेघपटलेराच्छादितयोरपि सूर्यचन्द्रमसोनैकान्तेन तत्प्रभानाशः सम्पद्यते, सर्वस्य सर्वथा स्वभावापनयनस्य कर्तुमशक्यत्वात्, एवमनन्तानन्तैरपि ज्ञानावरणपरमाणुभिरेकैकस्यात्मप्रदेशस्यावेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्याप्यभावो भवति । यतो यत्सर्वजघन्यं तन्मतिश्रुतात्मकं, अतः सिद्धोऽक्षरस्यानन्तमो भागो नित्योद्घाटितः, तथा च सति मतिज्ञानस्य श्रुतज्ञानस्य चानादिभावः प्रतिपद्यमानो न विरुध्यते, इति स्थितम् । इति नन्दीसूत्रवृत्तौ १६२ प्रतौ १६१ पत्रे ॥३॥
ननु महावीरस्येयन्तः श्रावका अभूवंस्तेषु मध्ये केन जिनप्रतिमा कारिता कस्य वा जिनप्रतिमाऽभूत् इत्यादिभिः, तथा इयत्सु श्रावकेषु केनोपधानानि व्यूढानि कुत्र वा शास्त्रे उपधानान्युक्तानि इत्यादिभिश्च. स्वकपोलकल्पितदुर्विकल्पैरनल्पयन्ति संसारं जल्पाकाः, ततस्तन्मतद्वयनिराकरणाय जिनप्रतिमाक्षराणि उपधानाक्षराणि चेकेनैव सूत्रेण लिख्यन्ते ---
से किं तं उवासगदसाओ? उवासगदसासु णं समणोवासगाणं नगराई उजाणई चेइआई वणसंडाई समोसरणाई रायाणो अम्मापियरो धम्मायरिया धम्मकहाओ इहलोइअपरलोइया इडिविससा भोगपरिचाया पव्वञ्जाओ परियागा सुअपरिग्गहा तवोवहागाई सीलव्ययगुणवेरमणपञ्चक्खाणपोसहोवयासपडिवजणया पडिमाओ उक्सग्गा संलेहणायो भत्त
lain Educh an in
For Private & Personal Use Only
www.jainelibrary.org