________________
यावद्गच्छन्ति, तन्नाधोगतिविषयमनोवीर्यपरिणतेवैषम्यदर्शनादूर्ध्वगतावपि तद्वैषम्यम् , तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाणं सममिति कृतं प्रसङ्गेन । तथा पुल्लिङ्गे शरीरनिवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुल्लिङ्गसिद्धाः ६,
एवं नपुंसकलिङ्गसिद्धाः १०, तथा खलिङ्गे रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः ११, तथा अन्यलिङ्गे । परिव्राजकादिसम्बन्धिनि वल्कलकषायादिवस्त्रादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः १२, गृहिलिङ्गे सिद्धा गृहिलिङ्गसिद्धामरुदेवीप्रभृतयः१३, तथा एकस्मिन्नेकस्मिन् समये एकैकः सन्तो ये सिद्धास्ते एकसिद्धाः१४, अनेकसिद्धा इति एकमिन् समये अनेके सिद्धाः अनेकसिद्धाः१५, अनेके चैकस्मिन समये सिध्यन्त उत्कर्पतोऽष्टोत्तरशतसङ्ख्या वेदितव्याः। श्राहननु तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये एव शेषा भेदा अन्तर्भवन्ति तत्किमर्थं शेषभेदोपादानं ? उच्यते-सत्यमन्तर्भवन्ति परं न तीर्थसिद्धातीर्थसिद्धभेदद्वयोपादानमात्राच्छेपभेदपरिज्ञानं भवति, विशेषपरिज्ञानार्थ च विशेषशास्त्रप्रयासः । इति नन्दीसूत्रवृत्तौ १६२ प्रतौ १०४ । १०५ पत्रे ॥२॥ निगोदादिजीवानामपि मतिश्रुतज्ञानानन्तांशोप्रावृतस्तिष्ठतीत्यभिप्रायो लिख्यते
सव्वजीवाणंपि अणं अक्खरस्स अणंतभागो निचग्याडिओ चिट्टह, जइ पुण सो वि श्रावरिजा तेणं जीवो अजीवत्त पाविज्जा, सुट्ठ वि मेहसमुदए होइ पभा चंदसूराणं इति । वृत्तिर्यथा- सव्वजीवाणंपि' इत्यादि, सर्वजीवानामपि णमिति वाक्यालङ्कारे, अक्षरस्य-श्रुतज्ञानस्य श्रुतज्ञानं च मतिज्ञानाविनाभावि, ततो मतिज्ञानस्यापि अनन्तमो भागो नित्योद्घाटितः । | सर्वदेवाप्रावृत्तस्तिष्ठति, सोऽपि चानन्ततमो भागोऽनेकविधः, तत्र सर्वजघन्यश्चैतन्यमानं तत् पुनः सर्वोत्कृष्टश्रुतावरणस्त्यान
Jan Education Intemani
For Private Personel Use Only
www.jainelibrary.org