SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ विचार ॥११४॥ Jain Education I नरक पृथ्वीगमनमागमे निषिद्धं निषेधस्य च कारणं तद्गमनयोग्यतथाविधसर्वोत्कृष्टमनोवीर्यपरिणत्यभावः, ततः रत्नाकरः सप्तमपृथ्वीगमननिषेधादवसीयते नास्ति स्त्रीणां निर्वाणं निर्वाण हेते। स्तथारूपसर्वोत्कृष्ट मनोवीर्यपरिणत्यसम्भवात्, | तथा चात्र प्रयोगः - असम्भवनिर्वाणं स्त्रियः सप्तमपृथ्वीगमनत्वाभावात् सम्मूच्छिमादिवत्तदेतद्युक्तम्, यतो यदि नाम atri सप्तमनरक पृथ्वीगमनं प्रति सर्वोत्कृष्टमनावीर्यपरिणत्यभावः तत एतावता कथमवसीयते निःश्रेयसं प्रत्यपि तासां सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो ? न हि यो भूमिकर्षणादिकं कर्म कर्त्तुं न शक्नोति स शास्त्राण्यवगाढुं न शक्नोतीति प्रत्येतुं शक्यं प्रत्यक्षविरोधात् अथ सम्मूच्छिमादिषूभयं प्रत्यपि सर्वोत्कृष्टमनोवीर्यपरिणत्यभावो दृष्टः ततोऽप्यवसीयते, ननु यदि तत्र दृष्टस्तर्हि कथमत्रावसीयते ? न खलु बहिर्व्याप्तिमात्रेण हेतुर्गमको भवति किं त्वन्तर्व्याप्या, अन्तर्व्याप्तिश्च प्रतिबन्धलेन सिध्यति, न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथ्वीगमनं निर्वाणगमनस्य कारणम्, नाप्येवमेवाविनाभावप्रतिबन्धेन सप्तमपृथ्वीगमनाविनाभाविनिर्वाणगमनम् सप्तमपृथ्वीगमनमन्तरेणैव चरमशरीरिणां निर्वाणगमनभावात्, न च प्रतिबन्धमन्तरेणैकस्याभावेऽन्यस्याभाव:, मा प्रापद्यस्य कस्यचिदेकस्याभावे सर्वस्याभावप्रसङ्गः, यद्येवं तर्हि कथं सम्मूच्छि मादिषु निर्वाणगमनाभावः ? इति उच्यते - तथाभवस्वाभाव्यात, तथा हि-ते सम्मूच्छिमादयो भवस्वभावत एव सम्यग्दर्शनादिकं तथावत् प्रतिपत्तुं न शक्नुवन्ति ततो न तेषां निर्वाणसम्भवः, स्त्रियस्तु प्रागुक्तप्रकारेण यथावत्सम्यग्दर्शनादिरत्नत्रय - सम्पद्येोग्याः ततस्तासां न निर्वाणाभावः अपि च भुजपरिसर्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति न परतः, परपृथ्वीगमनहेतुतथारूपमनोवीर्यपरिणत्यभावात्, तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं ational For Private & Personal Use Only ।। ११४ ।। www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy