________________
संसर्गमात्र परिग्रहः किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते धर्मोपकरणमात्रतया तस्योपादानात् , न खलु ता वस्त्रमन्तरेणात्मानं रक्षितुमीशते नापि शीतकालादिष्वर्वाग्दशायां स्वाध्यायादि कर्तुम् । ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुञ्जाना न ताः परिग्रहवत्यः । अथोच्येत सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं, परं न तत्सम्भवमात्रेण मुक्तिपदनापकं भवति किन्तु प्रकर्षप्राप्तम् , अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषेण मुक्तिपदप्राप्तिप्रसक्तेः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी ततो न निर्वाणमिति तदप्ययुक्तम् , स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकस्य प्रमाणस्याभावात्, न खलु सकलदेशकालव्याप्त्या स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्ष अनुमानं वाप्रमाणं विजृम्भते, देशकालविप्रकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रमाणवृत्तौ चाऽनुमानस्याप्यसम्भवात् , नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते प्रत्युतसम्भवप्रतिपादकः स्थाने स्थानेऽस्ति, यथा-इदमेव प्रस्तुतं सूत्रं ततो न तासां रत्नत्रयप्रकर्षासम्भवः, अथ मन्येथाः स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन रत्नत्रयप्रकर्षः ततस्तदसम्भवोऽनुमीयते तदयुक्तं युक्तिविरोधात , तथा हि-रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः स चायोग्यवस्थाचरमसमये स चास्माकमप्रत्यक्षः, ततः कथं विरोधगतिः ? न हि अदृष्टेन सह विरोधः प्रतिपत्तुं शक्यते मा प्रापत् पुरुषेष्वातिप्रसङ्गः । ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धम् , सर्वोत्कृष्टे च द्वे पदे सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्टं दुःखस्थानं सप्तमनरकपृथ्वी अतः परमदुःखस्थानस्याभावात् सर्वोत्कृष्टं सुखस्थानं तु निःश्रेयसं ततः परमन्यस्य सुखस्थानस्यासम्भवात् , ततः स्त्रीणां सप्तम
Jain Education L
ional
For Private & Personel Use Only
www.jainelibrary.org