________________
विचार-का
रत्नाकर
॥११३॥
सति सिद्धत्वाभावात् नेपथ्यस्य चाप्रमाणत्वात् , आह च चूर्णिकृत्-" इत्थीए लिंग इत्थीलिंग इत्थीए उवलक्खणं वुत्तंति भवति तं च तिविहं वेश्रो सरीरनिव्वत्ती नेवत्थं च, इह सरीरनिव्वत्तीए अहिगारो न वेद नेवत्थेहिं ति" तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः८, एतेन यदाहुराशाम्बरा न स्त्रीणां निर्वाणमिति तदपास्तं द्रष्टव्यम्, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्तत्प्रतिषेधस्य च युक्त्यनुपपन्नत्वात् । तथा हि-मुक्तिपथो ज्ञानदर्शनचारित्राणि " सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" इति वचनात्सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि, तथा हि-दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतम् , परिपालयन्ति च सप्तदशविधमकलकं संयमम् , धारयन्ति च देवासुराणामपि दुर्द्धरं ब्रह्मचर्यम्, तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव तासां न मोक्ष सम्भवः स्यादेतदस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं संयमाभावात्, तथा हि-स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यमन्यथाऽविवृताङ्ग यस्तास्तिर्यत्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गोपजायते ततोऽवश्यं ताभिर्वस्त्रं परिभोक्तव्यम् , वस्त्रपरिभोगे च सपरिग्रहता सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनं सम्यग्सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाभिधीयते ' मुच्छा परिग्गहो वुत्तो' इति वचनप्रामाण्यात् , तथा हि मूर्छारहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते अन्यथा केवलोत्पादासम्भवात् , अपि च यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत्ततो जिनकल्पप्रतिपन्नस्य कस्यचित्साधोस्तुषारकणानुषिक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्यशीतीति विभाव्य धर्मार्थिना शिरसि वस्ने प्रक्षिप्ते तस्य सपरिग्रहता भवेत्, न चैतदिष्टं, तस्मान्न
॥११
Jain Education Intel.!
For Private & Personel Use Only
Galww.jainelibrary.org