________________
चूर्णिकृत् - " पत्तेयं बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः बहिः प्रत्ययप्रतिबुद्धानां च पत्तेयं नियमा बिहारो जम्हा तम्हा य ते पत्तेयबुद्धा " इति, तथा स्वयम्बुद्धानामुपधिर्द्वादशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा - जघन्यतः उत्कर्षतश्च तत्र जघन्यतो द्विविधः उत्कर्षतो नवविधप्रावरणवर्ज:, आह च चूर्णिकृत् – " पत्तेयबुद्धाणं जहनेणं दुबिहो उक्को सेणं नवविहो नियमा पावरणवओ भवइ " तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा यदि भवति ततो लिङ्गं देवताः प्रयच्छन्ति गुरुसन्निधौ वा गत्वा लिङ्गं प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद् गुरुसन्निधे गत्वा लिङ्गं प्रतिपद्यते गच्छं चावश्यं न मुञ्चति, उक्तं च चूर्णिकृता - " पुव्वाधीयं से सुयं हवइ वा न वा जड़ से नत्थि तो लिंगं नियमा गुरुसन्निहे पडवजह गच्छेय विरह त्ति, पुण्वाधीयसुअसंभवोत्थि तो से लिंगं देवया पयच्छर गुरुसन्निधे वा पडिवजह जइ एगविहारविहरणजोग्गो इच्छा वा से तो एक्को वि विहरs अन्ना गच्छे चैव विहरइ " इति प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिश्यूनानि दशपूर्वाणि तथा लिङ्गं तस्मै देवताः प्रयच्छन्ति लिङ्गरहितो वा कदाचिद्भवति, तथाऽऽह चूर्णिकृत् - " पत्तेयबुद्धाणं पुव्वाधीचं सुयं नियमा हवाइ जहन्नउ इक्कारस अंगाई उक्कोसेणं भिन्नदपुब्बाई लिंगं च से देवया पयच्छह लिंग जियो वा भवइ जतो भणियं कप्पं पत्तेयबुद्धा " इति, तथा बुद्धा- आचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः, एते च केचित्स्त्रीलिङ्गसिद्धाः स्त्रियो लिङ्गं स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणमित्यर्थः तच त्रिधा तद्यथा-वेदः शरीरनिर्वृत्तिर्नेपथ्यं च तत्रेह शरीरनिर्वृच्या प्रयोजनं न वेदनेपथ्याभ्यां वेदे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org