________________
विचार
॥११२॥
ततोऽनन्तरभवोपाधिभेदतः पञ्चदशविधतां मुख्यत आह-तद्यथेत्युपदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोs- । रत्नाकरः नेनेति तीर्थ-यथावस्थितसकलजीवाजीवादिपदार्थप्ररूपकं परमगुरुप्रणितप्रवचनम्, तच्च निराधारं न भवतीति कृत्वा सङ्घः प्रथमगणधरो वा वेदितव्यम् , उक्तं च--" तित्थं भंते ! तित्थं तित्थकरे तित्थं ? गोयमा ! अरहा ताव तित्थंकरे तित्थं पुण चाउचमा समणसंघो पढमगणहरो चा" तस्मिन् उत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः १, तथा तीर्थस्याऽभावोऽतीर्थः तीर्थस्याभावश्च-अनुत्पादः अपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत , तथा तीर्थव्यवच्छेदश्चन्द्रप्रभखामिसुविधिस्वाम्यपान्तराले तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदे सिद्धाः२, तथा तीर्थङ्कराः सन्तो ये सिद्धास्ते तीर्थङ्करसिद्धाः३, अतीर्थकरसिद्धा-अन्ये सामान्यकेवलिनः४, तथा स्वयम्बुद्धाः सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः ५, तथा प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः६, अथ स्वयम्बुद्धप्रत्येकबुद्धानां का प्रतिविशेषः ? उच्यते बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथा हि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुद्ध्यन्ते स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयम्बुद्धाः इति व्युत्पत्तेः, ते च द्विधा तीर्थकरास्तीर्थकरव्यतिरिक्ताश्च इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च चूर्णिकृत् " ते दुविहा तित्थयरा तित्थयरवतिरित्ता वा इह वतिरित्तेहिं अहिगारो" इति, प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुद्ध्यन्ते प्रत्येकं-बाह्य वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः-प्रत्येकबुद्धा इति व्युत्पत्तेः, तथा च श्रूयते-बाह्यवृषभादिककारणसापेक्ष्य करकएड्वादीनां बोहिः, बहिः प्रत्ययमपेक्ष्य च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति न गच्छवासिन इव संहिताः, आह च ॥११२॥
an Education
For Private Personel Use Only
www.jainelibrary.org