SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ पाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे निरयावलिविचारनामाऽष्टमस्तरङ्गः ॥८॥ यसादयं समग्रो, व्यवहारो जम्भते जगन्मध्ये । तदहं धृतबहुमानं, विधिना सेवे श्रुतज्ञानम् ॥ १॥ अथ नन्दीमत्रविचारा लिख्यन्ते-तत्र पूर्व श्रीजिनप्रासादसद्भावाक्षराणि लिख्यन्ते संवरवरजलपगलिय-उज्झरपविरायमाणहारस्स । सावगजणपउररवंत-मोरनचंतकुहरस्स ॥ १५ ॥ व्याख्या-- 'संवर' इत्यादि, संवरः-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानरूपः तदेव कर्ममलप्रक्षालनात्सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच्च घरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढ उज्झरः-प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा तस्य, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायाद्याराधनमुखरतया प्रचुरा रवन्तो मयूरास्तैर्नृत्यन्तीव कुहराणिजिनमण्डपादिरूपाणि यस्य स तथा तस्य इति नन्दीवृत्ती १६२ प्रती ४२ पत्रे ॥१॥ अथ केचनाज्ञानिनः स्त्रीणां मुक्तिं न मन्यन्ते, तद्युक्तियुक्तसिद्धान्तेन निराकर्तुं लिख्यते से किं तं अणंतरसिद्धकेवलनाणं? अणंतरसिद्धकेवलनाणं पन्नरसविहं पन्नत्तं तंजहा-तित्थसिद्धा ? अतित्थसिद्धा २ तित्थयरसिद्धा ३ अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ इथिलिंगसिडा ८ पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अन्नलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ से तं अणंतरसिद्धकेवलनाणं ।। इति । वृत्तिर्यथा-'से किं तं' इत्यादि, अथ किं तदनन्तरसिद्धकेवलज्ञानम् ? मूरिराह-अनन्तरसिडकेवलज्ञानं पञ्चदशविधं प्रज्ञप्तम् , पञ्चदशविधता चास्यानन्तरपाश्चात्यभवरूपोपाधिभेदापेक्षया पञ्चदशविधत्वात् , Jain Education 1 For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy