SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ विचार रत्ना हस्त्यादिवलपरिमाणम् , ततो युद्धं सम्प्रलनम् , चेटकराजस्य तु प्रतिपन्नवतत्वेन दिनमध्ये एकमेव शरं मुञ्चत्यमाघबाणश्च सः, तत्र कृषिकसैन्ये गरुडव्यूहः, चेटकसैन्ये सागरव्यूहो विरचितः। ततश्च कूणिकस्य कालो दण्डनायको निजबलान्वितो युद्धयमानस्तावद्गतो यावच्चेटकः, ततस्तेन शरनिपातेनासौ निपातितो भग्नं च कृणिकबलम् , गते च द्वे अपि बले निजं निजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजवलान्वितो युद्ध्यमानस्तावद्गतो यावचेटकः, एवं सोऽप्येकशरेण निपातितः । एवं तृतीयेऽति महाकालः सोऽप्येवम् । चतुर्थेऽति कृष्णकुमारः, सोऽप्येवमेव । पञ्चमे सुकृष्णः ५। षष्ठे महाकृष्ण : ६ । सप्तमे वीरकृष्णः ७। अष्टमे रामकृष्णः ८। नवमे पितृसेनकृष्णः।। दशमे पितृमहासेनकृष्णः १०।। चेटकेन एकैकशरेण निपातिताः । एवं दशसु दिनेषु चेटकेन विनाशिता दशापि कालादयः । एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कृणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतो, ततः शक्रो बभाषे-चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थ वज्रप्रतिरूपमभेद्यकवचं कृतवान् । चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान् , महाशिलाकण्टकः रथमुशलं चेति, तत्र महाशिलेव कण्टकजीवभेदकत्वान्महाशिलाकण्टकः, ततश्च यत्र तृणशूलादिनाऽप्यभिहतस्याश्वहस्त्योदमहाशिलाकण्टकेनेवास्याहतस्य वेदना जायते स सङ्ग्रामो महाशिलाकण्टक एवोच्यते । 'रथमुशले' इति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् असौ रथमुशलः । 'ओपाए' इति उपपातः संप्राप्तः किं जइ| स्सइ' इति जयश्लाघां प्राप्स्यति पराजेष्यते अभिभविष्यति परस्सैन्यं परानभिभविष्यति उत नेत्यादि।श्रीनिरयावलिसूत्रवृत्तौ। इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यो ॥१११॥ Jain Education Intel For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy