________________
रायगिहाओ निग्गंतुं चंपं रायहाणिं करेइ, एवं चंपाए कूणिो राया रजं करेइ नियभायपमुहसयणसंजोगो इह निरयावलियासुयक्खंधे कृणिकवक्तव्यतादावुत्क्षिप्ता, तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरणेन नरकयोग्यकर्मोपार्जनसम्पादनाबरकगामितया 'निरयाउ' त्ति प्रथमाध्ययनस्य कालादिकुमारवक्तव्यता प्रतिबद्धस्यैतन्नाम । अथ रथमुशलसङ्ग्रामस्योत्पत्तौ किं निबन्धन ? अत्रोच्यते-एवं किलायं सङ्ग्रामः सञ्जातः, चम्पायां कूणिको राजा राज्यं चकार । तस्यानुजौ हल्लविहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यहारदिव्यवसनविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कृणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कूणिकराज प्रेरितवती-“कर्णविपलमकृतेऽयमेव कुमारो राजा तत्त्वतो न त्वम् यस्येशा विलासाः" प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थस्योपरमति, तत्प्रेरित कूणिकराजेन तौ याचितौ, तौ च तद्भयाद्वैशाल्यां नगर्या स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिको सान्तःपुरपरिवारौ गतवन्तौ, कणिकेन च दुतप्रेषणेन तौ याचितौ, न च तेन प्रेषितौ, कूणिकस्य तयोश्च तुल्यमातृकत्वात् ततः कूणिकेन भणितम्-यदि न प्रेषयसि तदा युद्धसज्जो भव, तेनापि भणितम्-'एष सजोऽस्मि, ततः कृणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्घामायायाताः । तत्रैकैकस्य त्रीणि त्रीणि
हस्तिनां सहस्राणि, एवं स्थानामश्वानां मनुष्याणां च प्रत्येकं तिस्रः तिस्रः कोट्यः कुणिकस्याप्येवमेव तत एकादशभागीN] कृतराज्यस्य कूणिकस्य कालादिभिः सह, निजेन एकादशांशेन सङ्ग्रामे काल उपागतः एतमर्थ वक्तुमाह-'तए णं से
काले' इत्यादिना एनं च व्यतिकरं ज्ञात्वा चेटकेनाऽप्यष्टादश गणराजानो मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव
Jain Education International
For Private & Personel Use Only
Lawww.jainelibrary.org