________________
विचार
॥१०९॥
शकंध्वादिदर्शनादुपपतेति स्यात्, ' माणुम्माणपमाण पडिपुन्नसुजायसव्वंगसुंदरंगा ' तत्र मानं - जलस्य द्रोणप्रमाणता कथं ? जलस्यातिभृते कुंडे पुरुषे निवेशिते यञ्जलं निस्सरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानं अर्द्धभारप्रमाणता कथं ? तुलारोपितः पुरुषो यद्यर्द्धभारं तुलति तदा स उन्मानप्राप्त उच्यते, प्रमाणं तु खाङ्गुलेनाष्टोत्तरशतोच्छ्रायता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि - अन्यूनानि सुजातानि सर्वाणि श्रङ्गानि - शिरः प्रभृतीनि यस्मिंस्तत्तथाविधं सुन्दरमङ्ग - शरीरं यस्याः सा तथा, 'ससिसोमाकारकंत पियदंसणा ' शशिवत्सौम्याकारं कान्तं च- कमनीयं अत एव प्रियं द्रष्टृणां दर्शनं रूपं यस्या सा तथा, अत एव सुरूपा स्वरूपतः सा पद्मावती देवी ' कूणिएणं सद्धिं उरालाई भोगभोगाई भुंजमाणी विहरह ' भोगभोगान्- अतिशयवद्भोगान्, ' तत्थ खं ' इत्यादि, ' सोमालपाणिपाया' इत्यादि पूर्ववद्वाच्यम्, अन्यच्च' को मुइरयणियरविमल पडिपुन्न सोमवयणा' कौमुदीरजनीकरवत् - कार्त्तिकीचन्द्र इव विमलं प्रतिपूर्ण सौम्यं वदनं यस्या सा तथा, ‘कुंडलुल्लेहियगंड लेहा ' कुण्डलाभ्यामुल्लिखिता घृष्टा गण्डलेखाः - कपोलविरचितमृगमदादिरेखा यस्याः सा तथा, ' सिंगारागार चारुसा' शृङ्गारस्य- रसविशेषस्यागारमिवागारं तथा, चारुत्रेषो - नेपथ्यं यस्या सा तथा ततः कर्मधारयः, ' काली नामं देवी ' श्रोणिकस्य भार्या सा कूणिकस्य राज्ञश्रुलजननी -- लघुमाताऽभवत् सा य कालीदेवी सेणियस्स रन्नो इट्ठा वल्लभा कान्ता काम्यत्वात् प्रिया - सदा प्रेमविषयत्वात् ' मणुन्ना' सुन्दरत्वात्--' नामधिजा ' प्रशस्तनामधेयवतीत्यर्थः नाम वा धार्यं हृदि घरणीयं यस्याः सा तथा, ' वेसासिया' विश्वसनीयत्वात् ' सम्मया ' तत्कृतकार्यस्य संगतत्वात् ' बहुमया ' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता बहुमता बहुमानपात्रं वा 'अणुमया ' विप्रियकरणस्यापि पश्चा
Jair Education Internal
For Private & Personal Use Only
रत्नाकरः
॥१०९॥
www.jainelibrary.org