________________
विचार
॥१०५॥
Jain Education Inter
चन्द्रकान्तादयो रत्नानि — कर्केतनादीनि तेषां भक्तयो - विच्छित्तिविशेषास्ताभिचित्रं - श्रनेकरूपवत् आश्रर्यवद्वा विविध - मणिरत्नचित्रम्, वातोद्धता - वातकंपिता विजयो — अभ्युदयस्तत्सूचिका वैजयन्त्यभिधाना या पताका अथवा विजया इति वैजयन्तीनां पार्श्वकार्यका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताका:- ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि च - उपर्युपरि स्थितातपत्राणि तैः कलितं ततो वातोद्भुत विजयवैजयन्तीपताकाछत्रा तिच्छत्रकलितं तु-उच्चमत एव ' गगणतलमणुलिहंत सिहरे ' त्ति गगनतलं - अम्बरतलमनु लिखत् - श्रभिलङ्घयच्छिखरं यस्य तद् गगनतलानुलिखच्छिखरम्, तथा जालानि - जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तज्जालान्तररत्नम्, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पज्जरादुन्मीलितमिव बहिष्कृतमिव पञ्जरोन्मीलितम्, यथा हि किल किमपि वस्तु पञ्जरात्-वंशादिमयप्रच्छादन विशेषाद्ध हिष्कृत मत्यन्तमविनष्टच्छायत्वाच्छोभते एवं तदपि विमानमिति भाव:, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं यस्य तन्मणिकनकस्तूपिकाकम्, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्च भित्यादिषु पुण्ड्राणि रत्नमयाचार्द्धचन्द्रा द्वारादिषु तैश्वित्रं विकसितशतपत्र पुण्डरीकतिल कार्द्धचन्द्रचित्रम्, तथाऽन्तर्बहिश्च श्लक्ष्णं - मसृणमित्यर्थः, तथा तपनीयं - सुवर्णविशेषस्तन्मय्या वालुकायाः प्रस्तरः- प्रतरो यत्र तत्तपनीय वालुकाप्रस्तटम्, तथा सुखस्पर्शं शुभस्पर्श वा तथा सश्रीकाणि - सशोभानि रूपाणिनरयुग्मादीनि यत्र तत्सश्रीकरूपम्, तथा प्रासादीयं - मनःप्रसादहेतु:, अत एव दर्शनीयं द्रष्टुं योग्यम्, तद्दर्शनेन तृप्तेरसम्भ वात्, तथा प्रतिविशिष्टं - असाधारण रूपं यस्य तत्तथा । इतिश्रीचन्द्रप्रज्ञत्यष्टादशप्राभृतसूत्रवृत्तौ ४८ पत्रे ॥ १ ॥
For Private & Personal Use Only
रत्नाकरः
॥१८५॥
www.jainelibrary.org