SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ रत्नाकरः विचार- 12 चत्वारि योजनानि विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोक्तं सुबोधम् । अत्राह परः-एकस्य वस्तुनो विष्कम्भादि परिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतरनि॥१०४॥ र्णयः ? यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादि पुनस्तत्रैवास्य द्वादशयोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषां क्षायिकज्ञानवतामेकमेव मतं मूलतः, पश्चात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः, यदुक्तं । श्रीमलयगिरिसूरिभिज्योतिष्करण्डकवृत्ती-" इह स्कन्दिलाचार्यप्रवृत्तौ दुःपमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनशत् । ततो दुर्भिक्षातिक्रमे, सुभिक्षप्रवृत्तौ, द्वयोः सङ्घमेलापकोऽभवत् , तद्यथा-एको वल्लभ्यामेको मथुरायाम् , तत्र सूत्रार्थसङ्घने परस्परं वाचनाभेदो जातः, विस्मृतयोहि सूत्रार्थयोः स्मृत्वा स्मृत्वा सङ्घट्टने भवत्यवश्यं वाचनाभेदः" इत्यादि। ततोवापि दुष्करोऽन्यतरनिर्णयः, द्वयोः पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिभिः प्रवचनाशातनाभीरुभिः पुण्यपुरुषैरिति न काचिदनुपपत्तिः । इति जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्तौ प्रथमवक्षस्कारे ३८७ प्रतौ ६६ पत्रे ।। २॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरेऽपरतटे जंबूद्वीपप्रज्ञप्तिविचारनामा पञ्चमस्तरङ्गः॥ ५ ॥ सर्वज्ञभाषितार्थाय, समर्थाय तमोव्यये । अव्ययाय नमो नित्यं, सिद्धान्ताय जिनेशितुः ॥१॥ अथ परिपाट्यायाताः श्रीचन्द्रप्रज्ञप्तिविचारा यथा-तत्र चन्द्रविमानसंस्थानादिजिज्ञासया लिख्यतेता चंदविमाणेणं कि संठिए परमत्ते ? ता अद्धकविट्ठगसंठाणसंठिए सव्वफलियामए अब्भुग्गयमृसियपहसिए । विविह ११.४॥ Jain Education Interie For Private & Personal Use Only Helvww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy