SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ कादौ ग्लानाद्यर्थ खण्डादियाचने सति बिडं वा लवणं खनिविशेषोद्भवमुद्भिजं वा लवणाकराद्युत्पन्नं “ परिभाएत्तान्ति” दातव्यं विभज्य दातव्यद्रव्यात्किञ्चिदंशं गृहीत्वेत्यर्थः, निःसृत्य दद्यात्तथाप्रकारं परहस्तादिगतमेव प्रतिषेधयेत्तच्च ३७५ ॥ ॐ" आहचत्ति" सहसा प्रतिगृहीतं भवेत्तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेत् । भूल गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्दर्शयेदेतच्च ब्रूयात्, अमुक इति वा, भगिनी इति वा । एतल्लवणादिकं ॐ त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद्यथा- पूर्व मया जानता दत्तं साम्प्रतं तु यदि भवतोऽनेन ॐ प्रयोजनं ततो दत्तमेतत्परिभोगं कुरुध्वम् । तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं कारणवशादप्रासुकं वा भुञ्जीत | पिबेद्वा । यच्च न शक्नोति भोक्तुं वा पातुं वा तत्साधर्मिकेभ्यो दद्यात्तदभावे च बहुपर्यापन्नविधिं प्राक्तनं विदध्या | देतत्तस्य भिक्षोः सामग्र्यम् । इत्याचाराङ्गद्वितीयश्रुतस्कन्धपिण्डेषणाध्ययनदशमोद्देशके २३७ प्रतौ २०३ पत्रे ॥ ९ ॥ इह हि केचिच्चिरन्तनाज्ञानवासनातिमिरनिरुद्धान्तरदृशः परमकृपापीयूषपूरपूतान्तरश्रीजिनेश्वराज्ञैकजीवितां | परमार्थदयामजानाना मणिबुद्धया ग्रहिलगृहीतोपलशकलन्यायेन स्वमनीषिकाविजृम्भितमेव श्रेयो मन्यमानाः | पारगतप्रतिमापूजानिषेधादि यत्किञ्चिद्रवते, न च तत्तेषां सूत्राज्ञया विहरतां नद्याद्युत्तरतां कारणाद् वृक्षाद्यवलम्बतामाद्यत्रतरक्षणक्षमं द्वितीयव्रतरक्षणक्षमं च । तस्मादाज्ञामनोज्ञैव दद्याऽऽश्रयणीया । अन्यथा दयाज्ञयोर्विरोधापत्तिः | स्यादिति दर्शनाय लिख्यते " से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे वा अंतरा से वप्पाणि वा फलिहाणि वा विचार० Jain Education For Private & Personal Use Only रत्नाकरः ॥५॥ v.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy