________________
विचार
रत्नाकरः
॥१०२॥
मनःपुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यं असत्यामृषारूपं वा, मनुष्यादिना च पृष्टोऽपृष्टो वा कार्यवशतो वाग्पुद्गलान् गृहीत्वा वाग्योगं युनक्ति, तमपि सत्यं असत्यामृषा वा न शेपान् वाङ्मनसोयोगान् , क्षीणरागादित्वात् । आगमनादौ चौदारिककाययोगम् , तथा हि---भगवान् कार्यवशतः कुतश्चित्स्थानाद्विवक्षिते स्थाने आगच्छेत् यदिवा कापि गच्छेत् अथवा | तिष्ठेत् ऊर्द्धस्थानेन वाऽयतिष्ठेत् निपीदेत वा तथाविधश्रमापनयनाय त्वग्वननं वा कुर्यात् , अथवा विवक्षिते स्थाने तथाविधसम्पातिमसच्चाकुला भूषिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुल्लङ्घनं प्रलनं वा कुर्यात् , तत्र सहजात्पादविक्षेपान्मनागधिकतरः पादविक्षेपः उल्लङ्घनं, स एवाधिकतरः प्रलचनं, यदिवा प्रातिहारिकपीठफलकशय्यासंस्तारकं प्रत्यर्पयेत्-यस्मादानीतं तस्मै समर्पयेत् । इह भगवताय॑श्याभेत प्रातिहारिकपीठफलकादीनां प्रत्यर्पणमेवोक्तं ततोऽवसीयते नियमादन्तर्मुहावशेषायुष्क एवावर्जीकरणादिकमारभते न प्रभुतविशेषायुष्कः, अन्यथा ग्रहणस्यापि सम्भवात्तदप्युपादीयेत एतेन, यदाहुरेके-जघन्यतोऽन्तर्मुहूर्तावशेषे समुद्धातमारभते उत्कर्पतः पट्सु मासेषु शेषेष्विति तदपास्तं द्रष्टव्यम् , पसु मासेषु कदाचिदपान्तराले वर्षाकालसम्भवातन्निमित्तं पीठफलकादीनामादानमप्युपपधेत न च तत्सूत्रसम्मत्तमिति तत्प्ररूपणमुत्सूत्रमवसेयम् । इति प्रज्ञापनापत्रिंशत्तमपदसूत्रवृत्तौ ४०० प्रती ३९३ पत्रे । १०॥
अपरं च यदि सयोगिकेवलिनः केबलयोगप्रत्ययं विराधनामात्रमपि न स्यात्तर्हि तत्र निश्चयतः सर्वसंवररूपं सर्वोत्तम चारित्रं न भवतीति को हेतुः ? तच्च शैलेश्यवस्थायां योगनिरोधे सत्येव सर्वसंवररूपं सर्वोत्तमं चारित्रमुक्तम् । तथा हि
ईसिं हस्सपंचक्खरुच्चारणद्धाए असंखेजसमइयं अंतोमुहुत्तियं सेलेसिं पडिवजह ।। इति ॥ वृत्तिर्यथा-'ईसिं' ति.स्तोक-
१०२॥
Jan Education
a
l
For Private Personel Use Only
www.jainelibrary.org