________________
Jain Education Internation
जलाद्याकुले मार्गे स्थावराणामिति त्रसग्रहणमित्यलं प्रसङ्गेन वृद्धवाक्यमेव प्रमाणम् । केवलिनामुल्लङ्घनप्रलङ्घनादिव्यापारविषये सूत्रवृत्ती यथा -
से णं भंते ! तहा समुग्धायगए सिज्झति बुज्झइ मुच्चति परिनिव्वाति सव्वदुक्खाणमंतं करोति ? गोयमा ! नो इट्टे सम, सेणं ततो पडिनियत्तति पडिनियतित्ता ततो पच्छा मणजोगंपि जुंजति वयजोगंपि जुंजति कायजोगंपि जुंजति ॥ इति । वृत्तिर्यथा--' से णं भंते ! ' इत्यादि, स भदन्त ! केवली तथा दण्डकपाटादिक्रमेण समुद्घातं गतः सन् सिद्ध्यतिनिष्ठितार्थो भवति, स च वर्त्तमानसामीप्ये वर्त्तमानवद्वा ( ३-३ - १२१ पाणिनौ ) इति वचनात् सेत्स्यन्नपि व्यवहारत उच्यते । तत आह-बुद्ध्यते-अवगच्छति केवलज्ञानेन यथाऽहं निश्वयतो निष्ठितार्थो भविष्यामि निःशेषकर्माशापगमतः तत श्राह - मुच्यतेऽशेषकर्माशैः इति गम्यते, मुच्यमानश्च कर्माणुवेदनापरितापरहितो भवति, तत श्राह - परिनिर्वाति- सामस्त्येन शीतीभवति । समस्तमेतदेकेन पर्यायेण स्पष्टयति सर्वदुःखानामन्तं करोतीति भगवानाह - गौतम ! नायमर्थः समर्थः - नायमर्थः सङ्गतो यत्समुद्धातं गतः सन् सर्वदुःखानामन्तं करोतीति, योगनिरोधस्याद्याप्यकृतत्वात्, सयोगस्य च वच्यमाणयुक्त्या सिद्ध्यभावादिति भावः, ततः किं करोति ? श्रतश्राह - ' से णं ' इत्यादि, सोऽधिकृतसमुद्धातगतः णमिति वाक्यालङ्कारे, ततः समुद्धातात्प्रतिनिवर्त्तते, प्रतिनिवर्च्य च ततः प्रतिनिवर्त्तनात्पश्वादनन्तरं मनोयोगमपि वाग्योगमपि काययोगमपि युनक्ति-व्यापारयति, यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेषु अचिन्त्यमाहात्म्यसमुद्धातवशतः प्रभूतेष्वायुषा सह समीकृतेष्वपि अन्तर्मुहूर्त्तभाविपरमपदत्वतस्तस्मिन् काले यद्यनुत्तरोपपातिकादिना देवेन मनसा पृच्छयते तर्हि प्रश्नव्याकरणाय
For Private & Personal Use Only
www.jainelibrary.org