________________
विचार
॥१०॥
प्रदेश प्रक्षिप्यातीव मूर्छितः स्वायुःक्षयात्कालं कृत्वा यदा तस्या एव गर्भे मनुष्यबीजे मनुष्यत्वेनोत्पद्यते, मनुष्यबीजं च जघन्यतोऽन्तर्मुहूर्त उत्कृष्टतो द्वादश मुहर्त्तान् यावदवतिष्ठते, उक्तं च-" मणुस्सबीए णं भंते ! कालतो केवच्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस मुहुत्ता” इति । ततो द्वादशमुहूर्ताभ्यन्तरे उपभुक्तां परिष्वज्य मृतस्य तत्रैवोत्पत्तिर्मनुष्यत्वेन द्रष्टव्या, उत्कर्षतोऽधो यावदधोलौकिका ग्रामाः, तिर्यग्यावन्मनुष्यक्षेत्रं, उद्धर्व यावदच्युतकल्पस्तावदवसेया, कथं इति चेत् : उच्यते-इह यदाऽऽनतदेवः कस्याप्यन्यस्य देवस्य निश्रया अच्युतकल्पं गतो भवति, स च तत्र गतः सन् कालं कृत्वाऽधोलौकिकग्रामेषु यदि वा मनुष्यक्षेत्रपर्यन्ते मनुष्यत्वेनोत्पद्यते तदा लभ्यते । इति । श्रीप्रज्ञापनकविंशतितमपदसूत्रवृत्तौ ५३२ प्रती ४०१ पत्रे ॥३॥ ___अथ यः केवलिशरीराजीवविराधनामवश्यंभाविनीमपि सर्वथा न स्वीकुरुते तं प्रत्युच्यते-अरे भद्रक ! त्वया तावदुच्यते केवलि हि श्वासोच्छ्वासनिमेषोन्मेषादिकमपि तत्रैव कुरुते यत्राचित्ता वायुकायादयः स्युः, यद्ययमेवं नियमः स्यात्तदा मार्गेऽपि निर्जीवे एव गच्छत्ययमपि नियमः स्यात् तथा च न दृश्यते, यतः केवली मार्गे गच्छंत्रसाकुलां भूमिमवलोक्य जन्तुरक्षा| निमित्तमुल्लचनप्रलङ्घनादिकमपि करोतीति शास्त्रेऽभिहितम् , ततोऽवसीयतेऽचित्तवायुकायादावेव श्वासोच्छ्वासादिकं कुर्यादयमपि नियमो नास्ति, निजीवे एव अचित्तजल एव मार्गे गच्छत्ययमपि नियमोनैकान्तिक एवासैद्धान्तिकश्च, केवलं काययोगव्यापारपाल्यजीवरक्षायै उल्लङ्घनप्रलङ्घनादिकं कायव्यापारं करोति । अशक्यरक्षांस्तु तान् जानन्नपि चलोपकरणतया किं करोतु ? किञ्च-त्रसाकुला भूमिमवलोक्य उल्लङ्घनप्रलङ्घनादिकं कायव्यापारं कुर्यादित्यत्रैवं त्रसरक्षैव कृता भवति, नतु
॥११॥
in Eduen an inte
For Private Personal use only
ONTw.jainelibrary.org