SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तदत्र तवं केवलिनो विदन्ति । तेजोवायवोऽनन्तरमुभ्धृता अन्तक्रियामपि न कुर्वन्ति मनुष्येषु तेषामानन्तर्येणोत्पादाभावात्, अपि च ते तिर्यक्षुत्पन्नाः केवलिप्रज्ञप्तं धर्मं श्रवणतया लभेरन्, न तु बोधत इत्युक्तं प्राक् । वनस्पतिकायिका अनन्तरधृतास्तीर्थ करत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । द्वित्रिचतुरिन्द्रिया अनन्तरमुध्धृतास्तामपि न कुर्वन्ति, मनः पर्यवज्ञानं पुनरुत्पादयेयुः । तिर्यक्पश्चेन्द्रिय मनुष्य व्यन्तरज्योतिष्का अनन्तरमुध्धृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः । सौधर्मादयः सर्वार्थसिद्धिपर्यवसाना (रत्नप्रभा) नैरयिकवद्वक्तव्याः । इति प्रज्ञापनायां विंशतितमपदसूत्र वृत्तौ ५३२ प्रतौ ३८ पत्रे ॥ ८ ॥ अथानतदेवस्य तैजसशरीरावगाहना यथाऽङ्गुलासङ्ख्येयभाग प्रमाणमात्रा भवति, तथा लिख्यते आयदेवरस णं भंते ! मारखंतियसमुग्धाएवं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा पन्नता ? गोयमा ! सरीरप्पमाणमेत्ता विक्खभवाहल्लेणं श्रायामेणं जहन्नेरा अंगुलस्स असंखेजड़भागं उकोसेणं जाव होलोइयगामा तिरियं जाव मणुस्सखेते उड्डूं जाव अच्चु कप्पो । एवं आरणदेवस्य अच्चुयदेवस्स वि एवं चैव वरं उड्डुं जाव सयाई विमाणाई || इति ।। वृत्तिर्यथा - श्रनतदेवस्यापि जघन्यतोऽङ्गुलासङ्घ श्रेय भागप्रमाणा तैजसशरीरावगाहना, नन्वाना देवा मनुष्येष्वेवोत्पद्यन्ते मनुष्याश्च मनुष्यक्षेत्र एवेति कथमङ्गुला सङ्कथेय भागप्रमाणा ? उच्यते - इह पूर्व (भव) सम्बन्धिनीं मनुष्यस्त्रियमन्येन मनुष्येणोपभुक्तामानतदेवः कथनाप्यवधिज्ञानत उपलभ्यासन्नमृत्युतया विपरीतभावत्वात् सच्चचरितवैचित्र्यात् कर्मगते रचिन्त्यत्वात् कामवृत्तेर्मलिनत्वाच्च, उक्तं च--"सवानां चरितं चित्रं, विचित्रा कर्मणां गतिः । मलिनत्वं च कामानां वृत्तिः पर्यन्तदारुणा ॥ १ ॥ " इति गाढानुरागादिहागत्य नकुलोपगूढां तां परिष्वज्य तदवाच्यप्रदेशे स्वावाच्य Jain Education Intentional For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy