________________
रत्नाकरः
विचार
॥१०॥
जवणाणं पुण उप्पाडेजा, पंचिंदियतिरिक्खजोणियमणुस्सवाणमंतरजाइसिए णं पुच्छा, गोयमा! णो तिणद्वे समढे अंतकिरियं पुण करेजा, सोहम्मगदेवे णं भंते ! अणंतरं चयं चइत्ता तित्थगरत्तं लभेजा ? गोयमा ! अत्थेगइए लभेजा अत्थेगइए णो लभेजा, एवं जहा रयणप्पभापुढवीनेरइए एवं जाव सव्वट्ठसिद्धदेवे ॥ इति । वृत्तिर्यथा-' रयणप्पभापुढवीनेरइए णं भंते !' इत्यादि सुगमम् । नवरं बद्धानि-सूचीकलाप इव सूत्रेण प्रथमतो बद्धमात्राणि तदनन्तरं अग्निसंपर्कानन्तरं सकृत् घनकुट्टितसूचीकलापवत्स्पृष्टानि, निधत्तानि-उद्वर्तनापवर्तनावर्जशेषकरणायोग्यत्वेन व्यवस्थापितानीति भावार्थः, कृतानिनिकाचितानि सकलकरणायोग्यत्वेन व्यवस्थापितानीत्यर्थः, प्रस्थापितानि-मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश-कीर्तिनामसहोदयत्वेन व्यवस्थापितानीति भावः, निविष्टानि-तीव्रानुभावजनकतया स्थितानि, अभिनिविष्टानि-विशिष्टविशिष्टतराध्यवसायभावतोऽतितीव्रतमानुभावजनकतया व्यवस्थितानि, अभिसमन्वागतानि-उदयाभिमुखीभूतानि, उदीर्णानि| विपाकोदयमागतानि, नोपशान्तानि-न सर्वथाऽभावमापन्नानि निकाचिताद्यवस्थोद्रेकरहितानि वा न भवन्ति, शेषं समस्तमपि कंठयम् । एवं शर्कराप्रभावालुकाप्रभाविषये अपि सूत्रे वक्तव्ये । पङ्कप्रभापृथिवीनैरयिकः ततोऽनन्तरमुध्धृतः तीर्थकरत्वं न लभते अन्तक्रियां पुनः कुर्यात, धूमप्रभापृथिवीनरयिकोऽन्तक्रियामपि न करोति सर्वविरतिं पुनर्लभते । तमःप्रभापृथिवीनरयिकः सर्वविरतिमपि न लभते विरताविरतिं-देशविरतिं पुनर्लभते । अधःसप्तमपृथिवीनरयिकस्तामपि देशविरतिं न लभते यदि परं सम्यक्त्वमात्रं लभते । असुरादयो यावद्वनस्पतिकाया अनन्तरमुध्धृतास्तीर्थकरत्वं न लभन्ते, अन्तक्रियां पुनः कुर्युः, वसुदेवचरिते पुनर्नागकुमारेभ्योऽप्युध्धृतोऽनन्तरमैरावतक्षेत्रेऽस्यामेवावसापिण्यां चतुर्विंशतितमस्तीर्थकर उपदार्शितः,
k
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org