________________
विचार-
रत्नाकरः
॥४८॥
पुनरेवंविध इति चेत् ? उच्यते-एष एव षष्ठो वर्गः पञ्चमवर्गगुणितः, कोच प्रत्यय इति चेत् ? उच्यते-इह प्रथमवर्गश्छि- द्यमानो छेदनके ददाति, तद्यथा-प्रथमच्छेदनकं द्वौ द्वितीयमेकमिति, द्वितीयो वर्गश्चत्वारि च्छेदनकानि, तत्र प्रथममष्टी, द्वितीयं चत्वारः वतीयं द्वौ चतुर्थेमेक इति । एवं तृतीयो वर्गोऽष्टौ छेदनकानि प्रयच्छति, चतुर्थे: पोडश, पश्चमो द्वात्रिंशतं षष्ठश्चतुःषष्टिं, स चैवं पञ्चमवर्गेण गुणितः षणवतिः, कथमेतदवसेयमिति चेत् ? उच्यते-इह यो यो वर्गो येन येन वर्गेण गुण्यते तत्र तत्र तयोयोरपि छेदनकानि प्राप्यन्ते, यथा-प्रथमवर्गेण गुणिते द्वितीयवर्गे पद, तथाहि-द्वितीयो वर्गः षोडशलक्षण: प्रथमवर्गेण चतुष्करूपेण गुण्यते जाता चतुःषष्टिः, तस्याः प्रथमं छेदनकं द्वात्रिंशत्, द्वितीयं षोडश, तृतीयमष्टौ, चतुर्थ चत्वारः, पञ्चमं द्वौ, षष्ठमेक इति, एवमन्यत्रापि भावनीयम् । तत्र पञ्चमवर्गे द्वात्रिंशच्छेदनकानि, षष्ठे चतुःषष्टिः, ततः | पञ्चमवर्गेण षष्ठे वर्गे गुणिते षष्मवति छेदनकानि प्राप्यन्ते । अथवा एकं रूपं स्थापयित्वा ततः पमवतिवारान् द्विगुणद्विगुणीक्रियते कृतं च सद्यदि तावत्प्रमाणो राशिर्भवति ततोऽवसातव्यमेष षषवतिच्छेदनकदायी राशिरिति । तदेवं जघन्यपदमभिहितं, इदानीमुत्कृष्टपदमाह-' उक्कोसपए असंखेजा' इत्यादि, उत्कृष्टपदे ये मनुष्या भवन्ति तेऽसङ्खचेयाः, तत्रापि कालतः परिमाणचिन्तायां प्रति समयमेकैकमनुष्यापहारे सामस्त्येनासङ्घययाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते, क्षेत्रतो रूपे प्रक्षिप्ते मनुष्यैरेका श्रोणः परिपूर्णाऽपहियते, किमुक्तं भवति ?-उत्कृष्टपदे ये मनुष्यास्तेषु मध्ये एकस्मिन्नसत्कल्पनया रूपे प्रक्षिप्ते सकलापि श्रेणिरेकाऽपहियते, तस्याश्च श्रेणेः क्षेत्रकालाभ्यामपहारमार्गणा कालतस्तावदसङ्ख्थेयाभिरुत्सर्पिण्यवसर्पिणीभिः क्षेत्रतोजुलप्रथमवर्गमूलं तृतीयवर्गमूलप्रत्युत्पन्नम् , किमुक्तं भवति ?-अङ्गुलमात्रक्षेत्रप्रदेशराशिरसत्कल्पनया षट्पञ्चाशदधिक
॥
८॥
Jain Education Inter
For Private Personal use only