________________
इति विशेष निर्धारयति-सङ्खयेयाः कोटीकोट्यः, अथवा इदमन्यत् विशेषतरं परिमाणम् 'तिजमलपयस्सुवरि चउजमलपयस्स हेट्ठा' इति, इह मनुष्यसङ्घथाप्रतिपादकान्येकोनत्रिंशदङ्कस्थानानि वक्ष्यमाणानि, तत्र समयपरिभाषयाऽष्टानामष्टानामङ्कस्थानानां यमलपदमिति संज्ञा, चतुर्विंशत्या चाकस्थानस्त्रीणि यमलपदानि लब्धानि, उपरि पञ्चाङ्कस्थानानि तिष्ठन्ति, अथवा यमलपदमष्टभिरङ्कस्थानस्ततश्चतुर्थ यमलपदं न प्राप्यते तत उक्तं त्रयाणां यमलपदानामुपरि पञ्चभिरङ्कस्थानैर्वर्द्धमानत्वात्, चतुर्थस्य च यमलपदस्याधस्तात्रिभिरङ्कस्थानहीनत्वात् । अथवा द्वौ द्वौ वर्गों समुदितौ एकं यमलपदम् , चत्वारो वर्गाः समुदिताःद्वे यमलपदे, षट् वर्गाः समुदितास्त्रीणि यमलपदानि, अष्टौ वर्गाः समुदिताश्चत्वारि यमलपदानि, तत्र यस्मात्षप्लां वर्गाणामुपरि वर्तन्ते सप्तमस्य च वर्गस्याधस्तात् तत उक्तं त्रियमलपदस्योपरि चतुर्यमलपदस्याधस्तादिति, त्रियमलपदस्येति-तृतीयानां यमलपदानां समाहारस्त्रियमलपदं तस्य, तथा चतुर्णा यमलपदानां समाहारश्चतुर्यमलपदं, तस्य । सम्प्रति स्पष्टतरं सङ्ख्थानमुपदर्शयति-'अहव णं छट्टो वग्गो पंचमवग्गपडुप्पणो' इति, अथवेति-प्रकारान्तरे 'ण'मिति वाक्यालङ्कारे षष्ठो वर्गः पश्चमवर्गेण प्रत्युत्पन्नो-गुणितः सन् यावान् भवति तावत्प्रमाणा जघन्यपदे मनुष्याः, तत्रैकस्य वर्ग एक एव स च वृद्धिं न गत इति वर्गों न गण्यते, द्वयोर्वर्गश्चत्वार एष प्रथमो वर्गः ४, चतुर्णा वर्गः षोडश एष द्वितीयो वर्ग: १६, षोडशानां वर्गे वे शते षट्पञ्चाशदधिके एष तृतीयो वर्गः २५६, द्वयोः शतयोः षट्पञ्चाशदधिकयोवंगे: | पञ्चषष्टिः सहस्राणि पञ्चशतानि षट्त्रिंशदधिकानि एष चतुर्थो वर्गः ६५५३६, एतस्य वर्गश्चत्वारि कोटिशतानि एकोनत्रिशस्कोटयः एकोनपञ्चाशत्वक्षाः सप्तपष्टिः सहस्राणि द्वे शते वसवत्यधिके एष पञ्चमो वर्गः ४२६४६६७२६६, उक्तश्च
Jain Education int
o nal
For Private & Personal Use Only
www.jainelibrary.org