SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ रत्नाकर विचार ॥६६॥ उरि चउजमलपयस्स हिट्ठा, अहव णं छट्टो वग्गो पंचमवग्गपडप्पणो, अहव णं छनउइच्छेयणगदाई रासी । उक्कोसपए असंखेजा, असंखेजाहिं उस्सप्पिणियोसप्पिणीहिं अवहीरंति कालतो, खेत्ततो स्वपक्खित्तेहिं मणुस्सेहिं सेढी अवहीरति, तीसे सेढीए आगासखेत्तेहिं अवहारो मग्गिजइ असंखेज्जा असंखेज्जाहिं उस्सप्पिणिोसप्पिणिहिं कालतो, खेत्ततो अंगुलपढमवग्गमूलं तइयवग्गमूलपडुप्पणं ॥ इति । वृत्तिर्यथा-मनुष्याणां बद्धान्यौदारिकशरीराणि स्यात्-कदाचित्सङ्खयेयानि कदाचिदसङ्घयेयानि, कोत्राभिप्रायः इति चेत् ? उच्यते-इह द्वये मनुष्या-गर्भव्युत्क्रान्तिकाः सम्मृच्छिमाश्च, तत्र गर्भव्युक्रान्तिकाः सदाऽवस्थायिनो, न स कश्चित्कालोऽस्ति यो गर्भव्युत्क्रान्तिकमनुष्यविरहितो भवति, सम्मृच्छिमाश्च कदाचिद्विद्यन्ते कदाचित् सर्वथा तेषामभावो भवति, तेषामुकतोऽन्तर्मुहूर्त्तायुष्कत्वात् , उत्पत्यन्तरस्य चोत्कर्षतश्चतुर्विशतिमुहूर्तप्रमाणत्वात्, ततो यदा सर्वथा सम्मूछिमा मनुष्या न विद्यन्ते किन्तु केवला गर्भव्युत्क्रान्तिका एव तिष्ठन्ति तदा स्यात्स ङ्ख्येयाः, सङ्ख्ययानामेव गर्भव्युत्क्रान्तिकानां भावात् , महाशरीरत्वे प्रत्येकशरीरत्वे च सति परिमितक्षेत्रवर्तित्वात्, यदा तु सम्मृच्छिमास्तदाऽसङ्ख्येयाः सम्मूछिमानामुत्कर्षतः श्रेण्यसङ्ख्येयभागवर्तिनभ प्रदेशराशिप्रमाणत्वात्, तथा चाह'जहन्नपदे संखेजा' इत्यादि, जघन्यपदं नाम यत्र सर्वस्तोका मनुष्याः प्राप्यन्ते, आह-किमत्र सम्मूछिमानां ग्रहणमुत गर्भव्युत्क्रान्तिकानाम् ? उच्यते-गर्भव्युत्क्रान्तिकानां तेषामेव सदाऽवस्थायितया सम्मूच्छिमविरहे सर्वस्वोकतया प्राप्यमाणत्वात्, उत्कृष्टपदे तूभयेषामपि ग्रहणम्, यदाह मूलटीकाकार:-" सेतराणां ग्रहणमुत्कृष्टपदे जघन्यपदे गर्भव्युत्क्रान्तिकानामेव न केवलानां ग्रहण" मिति, अस्मिन् जघन्यपदे सङ्खथेया मनुष्याः, तत्र सङ्खयेयकं सङ्ख्थेयभेदभिन्न मिति न ज्ञायते कियन्तस्ते? ॥६६॥ Jain Education Inter For Private & Personel Use Only WI www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy