SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ६५ ॥ Jain Education Interne यच्च साधारणं प्राणापानयोग्य पुद्गलोपादानमुपलचणमेतत् यो साधारणावुच्छ्वासनिःश्वासौ या च साधारणा शरीरनिवृत्तिः एतत्साधारणजीवानां लक्षणम् || ३ || सम्प्रति यथैकस्मिन्निगोदशरीरेऽनन्ता जीवाः परिणताः प्रतीतिपथमवतरन्ति तथा प्रतिपादयन्नाह - 'जह अयगोलो' इत्यादि, यथा श्रयोगोलो ध्मातः सन् तप्ततपनीयसङ्काशः सर्वोऽग्निपरिणतो भवति तथा निगोदजीवान् जानीहि, निगोदरूपेऽप्येकैकस्मिन् शरीरे तच्छरीरात्मकतयाऽनन्तान् जीवान् परिणतान् जानीहि ॥ ४ ॥ एवं च सति - ' एगस्स ' इत्यादि, एकस्य द्वयोस्त्रयाणां यावत्सङ्ख्येयानां वा शब्दादसङ्खयेयानां वा निगोदजीवानां शरीराणि द्रष्टुं न शक्यानि कुतः इति चेत् ? उच्यते - अभावात् न होकादिजीवगृहीतानि अनन्तवनस्पतिशरीराणि सन्ति, अनन्तजीवपिण्डात्मकत्वात्तेषाम्, कथं तर्बुपलभ्यानि १ इत्यत आह-' दीसंति' इत्यादि, दृश्यन्ते शरीराणि निगोदजीवानांबादरनिगोदजीवानामनन्तानां न तु सूक्ष्मनिगोदजीवानाम् तेषां शरीराणामनन्तजीवसङ्घातात्मकत्वेऽप्यनुपलभ्यस्वभावत्वात्, तथा सूक्ष्मपरिणामपरिणतत्वात्, अथ कथमेतदवसीयते निगोदरूपशरीरं नियमादनन्तजीवपरिणामाविर्भावितं भवतीति ? उच्यते - जिनवचनात् तच्चेदम् - " गोला य असंखिजा, असंखनिगोअओ हवइ गोलो । एक्केकंमि निगोए, अणंतजीवा मुणेयव्वा ॥ १ ॥ " ॥ ५ ॥ सम्प्रत्येतेषामेव निगोदजीवानां प्रमाणमभिधित्सुराह - ' लोगागास ' इत्यादि, एकैकस्मिन् लोकाकाशप्रदेशे एकैकं निगोदजीवं स्थापय, एवमेकैकस्मिन् श्राकाशप्रदेशे एकैकजीवरचनया मीयमाना अनन्तालोका - अनन्तलोकाकाशप्रदेशप्रमाणा निगोदजीवा भवन्ति ॥ ६ ॥ इति प्रज्ञापना प्रथमपदवृत्तौ ४०० प्रतौ ३१ पत्रे ॥ ४ ॥ अत्र सूत्ररुचिबीजरुच्यधिगमरुचीनां स्वरूपं लिख्यते For Private & Personal Use Only रत्नाकरः 112 11 www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy