SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः। वृत्तिर्यथा-'सिया इत्यादि सिताः पुत्रकलत्रादिभिरवबद्धाः, वाशब्द उत्तरापेक्षया पक्षान्तरमाह, “ एगे अणुगच्छंतित्ति", एके लघुकर्माणः सम्यक्त्वं प्रतिपाद्यन्तमाचार्यमनुगच्छन्त्याचार्योक्तं प्रतिपद्यन्ते।तथा, असिता वा गृहपाशविमुक्ता वैके विचिकित्सावादरहिता आचार्यमार्गमनुगच्छन्ति, तेषां च मध्ये यदि कश्चित्कङ्कटुकदेश्यः स्यात्, स तान् प्रभूताननपाचीनमार्गप्रतिपन्नानवलोक्यासावपि कर्मविवरतःप्रतिपद्यताऽपीति दर्शयितुमाह-'अणुगच्छमाणेहिं इत्यादि' आचार्योक्तं सम्यक्त्वमनुगच्छद्भिर्विरतैर्विरताविरतैः सह संवसंस्तैर्वाचोद्यमानोऽननुगच्छनप्रतिपद्यमानः कथं न निर्वेदंगच्छेद ? असदनुष्ठानस्य मिथ्यात्वादिरूपांविचिकित्सांपरित्यज्याचार्योक्तं सम्यक्त्वमेव प्रतिपद्यत इत्यर्थः । यदि वासितासितैराचार्योक्तमनुगच्छद्भिर्बुध्यमानैः सद्भिः कश्चिदज्ञानोदयान्मतिजाड्यतया क्षपकादिश्चिरप्रवजितोऽप्यननुगच्छन्ननवधारयन् कथं न निर्विघेत न निर्वेदं तपःसंयमयोगच्छेत् निर्विण्णश्चेदमपि विभावयेद्यथा नाहं भव्यः स्यां न च मे संयतभावोऽप्यस्तीति, यतः स्फुटविकटमपि कथितं नावगच्छामि,एवं च निर्विण्णस्याचार्या समाधिमाहुः, यथा-भो साधो!मा विषाद्मवलम्बिष्ठाः, भव्योभवान् यतोभवता सम्यक्त्वमभ्युपगतं तच्च न ग्रन्थिभेदमृते तद्भेदश्च न भव्यत्वमृतेऽभव्यस्य हि भव्याभव्यशङ्काया अभावादिति भावः । किं चायं विरतिपरिणामो द्वादशकषायक्षयोपशमाद्यन्यतमसद्भावे सति भवति, स च भवतावाप्तः। तदेवं दर्शनचारित्रमोहनीये भवतःक्षयोपशमंसमागते दर्शनचारित्रान्यथानुपपत्तेः। यत्पुनः कथ्यमानेपिसमस्तपदार्थावगतिर्न भवति, तज्ज्ञानावरणीयविजृम्भितम् । तत्र च श्रद्धानरूपं सम्यक्त्वमालम्बनमित्याह । इत्याचाराङ्गप्रथमश्रुतस्कन्ध Jain Education For Private & Personel Use Only ainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy