________________
पन्नानामपि शरीरावश्यं भावितया जायमाना जीवविराधना न विरुध्यते । कर्मबन्धवैचित्र्यं भवतु नाम । इत्यर्थविजिज्ञापयिषया लिख्यते
" एगया गुणसमितस्स रीयतो कायफासमणुचिन्ना एगतिया पाणा उद्दायंतित्ति”। वृत्तिर्यथा-एकदा * कदाचिद्गुणसमितस्य गुणयुक्तस्याप्रमत्तयतेः रीयमाणस्य सम्यगनुष्ठानवतोऽभिक्रामतः प्रतिक्रामतः सङ्कुचतः प्रसारयतो विनिवर्तमानस्य संपरिमृजतः कस्याञ्चिवस्थायां कायः शरीरं तत्संस्पर्शमनुचीर्णाः कायसङ्गमागताः संपातिमादयः प्राणिन एके परितापमामुवन्त्येके ग्लानतामुपयान्त्येके च ध्वंसमापद्यन्ते । अपश्चिमावस्थां तु सूत्रकृदेव दर्शयति-एके प्राणाःप्राणिनोऽपद्रान्ति प्राणैर्विमुच्यते । अत्र च कर्मबन्धं प्रति विचित्रता । तथाहिशैलेश्यवस्थायां मशकादीनां कायसंस्पर्शेन प्राणत्यागेऽपि बन्धोपादानकारणयोगाभावान्नास्ति बन्धः । उपशान्त११क्षीणमोह१२सयोगिकेवलिनां १३ स्थितिनिमित्तकषायाभावात्सामयिकः। अप्रमत्तयतेजघन्यतोऽन्तर्मुहर्तमुत्कृष्टतोऽन्तःकोटाकोटी स्थितिरिति । प्रमत्तस्य त्वनाकुहिकयोपेत्य प्रवृत्तस्य कचित्पाण्याद्यवयवसंस्पर्शात्प्राण्युपतापनादौ जघन्यतः कर्मबन्ध उत्कृष्टतश्च प्राक्तन एव विशेषिततर इत्यादि । इत्याचाराङ्गप्रथमश्रुतस्कन्धपञ्चमलोकसाराध्ययनचतुर्थोद्देशकवृत्तौ २३७ प्रतौ १३२ पत्रे ॥७॥
अभव्यस्य भव्यत्वाभव्यत्वशङ्का न स्यादित्यभिप्रायो लिख्यते"सिया वेगे अणुगच्छन्ति असिया वेगे अणुगच्छति अणुगच्छमाणेहिं अणणुगच्छमाणे कहं न निविज्जे"।
lain Educat
i
onal
For Private & Personel Use Only
jainelibrary.org