________________
Jain Education
तत्वाच्च सूत्रे ठकारस्य लादेशः, 'अंकोठे लः' (८-१-२००) इति वचनात्, पीलुः - प्रतीतः शेलुः- श्लेष्मातकः सल्लकी- गजप्रिया मोचकीमालुकौ च देशविशेषप्रतीतौ बकुल:- केसरः पलासः - किंशुकः करञ्जो - नक्तमालः ॥ १॥ पुत्रजीवको - गोपगिरौ प्रसिद्धः अरिष्टः- पिचुमन्दः विभीतकः - अतः हरीतकः - कोङ्कणदेशप्रसिद्धः कषायबहुलः भल्लातको भल्लातकाभिधानानि फलानि लोकप्रसिद्धानि उम्बेभरिकाक्षीरणीधातकी प्रियालपूर्ति ( निम्ब ) करञ्ज श्लक्ष्ण शिंशपाशन पुन्नागनाग श्री पर्श्वशोका लोकप्रतीताः । ' जे यावन्ने तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः - एवंप्रकारास्तत्तद्देशविशेषभाविनः ते सर्वेऽपि एकास्थिका वेदितव्याः, एतेषां - एकास्थिकानां मूलान्यप्यसङ्ख्येयजीव कानि - असङ्ख्येयप्रत्येकशरीरजीवात्मकानि एवं कन्दा अपि स्कन्धा अपि वचोऽपि शाखा अपि प्रवाला अपि प्रत्येकम सङ्ख्येयप्रत्येकशरीरजीवकाः, तत्र मूलानि - यानि कन्दस्याsधस्ताद्भूमेरन्तः प्रसरन्ति तेषामुपरि कन्दाः ते च लोकप्रतीताः, स्कन्धाः स्थुडाः त्वचः - छल्न्यः शाला:-- शाखाः प्रबालाःपल्लवाङ्कुराः, ' पत्ता पत्तेयजीविय ' त्ति पत्राणि प्रत्येकजीवकानि-एकैकं पत्रमेकैकेन जीवेनाधिष्ठितमिति भावः, 'पुप्फा अणेगजीविय ' त्ति पुष्पाण्यनेकजीवानि प्रायः प्रतिपुष्पपत्रं जीवभावात्, फलान्येकास्थिकानि । उपसंहारमाह - 'से तंग ट्ठिया ' सुगमम् । इति श्रीप्रज्ञापनाप्रथमपदसूत्रवृत्तौ ४०० प्रतौ २७ पत्रे ॥ १ ॥
केचिच्च जातिप्रभृतिपुष्पाणां सङ्ख्यात जीवत्वेऽपि प्रतिमापूजनभयोत्पादनाय सामान्यतः पुष्पाणामनन्तजीवत्वं वदन्तो जनान् विप्रतारयन्ति ते तु दुर्लभबोधिनो वेदितव्याः, पुष्पेषु सङ्ख्या सङ्ख्यानन्तजन्तुकृतो विवेकश्चायं सिद्धान्तोक्तःपुफा जलया थलयाय, बिटबद्धा य खालवडा य । संखिज्जमसंखिज्जा, बोधव्वाणंतजीवा य ॥ ८२ ॥ जे केह खालि -
national
For Private & Personal Use Only
www.jainelibrary.org