SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ विचार- पत्याह--मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमानमायालोमाः मृदुमार्दवसम्पन्नाः आलीना भद्रका विनीताः, एतेषां व्याख्यानं प्राग्वत्, तेषां प्रणिधया प्रणिधानं प्रणिधा ' उपसर्गादात' इत्यङ्प्रत्ययः तान् प्रणिधाय-अपेक्ष्य तेषां प्रभावत ॥ २॥ इत्यर्थः। लवणसमुद्रो जंबूद्वीपं द्वीपं नावपीडयतीत्यादि, दुषमदुष्पमादावपि नावपीडयति, भरतैरावतवैतादयाधिपतिदेवता प्रभावात, तथा चुहिमवच्छिखरिणोर्वर्षधरपर्वतयोर्देवता महर्डिका, यावत्करणान्महाद्युतिका इत्यादिपरिग्रहः परिवसन्ति तेषां प्रणिधया-प्रभावन लवणसमुद्रो जंबूद्वीपं द्वीपं नावपीडयतीत्यादि तथा हैमवतैरण्यवतोवर्षयोर्मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा तयोरेव वर्षयोर्यथाक्रमं शब्दापातिविकटापाती वृत्तवैताढयौ पर्वतौ तयोर्देवौ महर्द्धिको यावत्पन्योपमस्थितिको परिवसतस्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा महाहिमवद्रुक्मिवर्षधरपर्वतयोर्देवता महर्द्धिका इत्यादि तथैव, तथा हरिवर्षरम्यकवर्षयोर्मनुजाः प्रकृतिभद्रका इत्यादि सर्व हैमवतवत्, तथा तयोः क्षेत्रयोर्यथाक्रमं गन्धापातिमान्यवत्पर्यायो यो वृत्तवैताढ्यपर्वतौ तयोर्देवो महर्द्धिकावित्यादि पूर्ववत्, तथा पूर्व विदेहापरविदेहवर्षयोरईन्तश्चक्रवर्तिनो यावन्मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा देवकुरूत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्, तथा उत्तरकुरुषु जम्बां सुदर्शनायामनादृतो नामदेवो जंबूद्वीपाधिपतिः परिवसति तस्य प्रणिधया-प्रभावनेत्यादि । इति श्रीजीवाभिगमतीयप्रतिपत्तिमन्दरोद्देशके २६४ प्रतौ १८५ पत्रे ॥६॥ चातुर्मासिकसांवत्सरिकपर्वदिनानि देवानामपि सुतरां मान्यानीत्यभिप्रायो लिख्यतेसेसं तहेव जाव सिद्धायतणा सव्वा ते चिय वमणा णायव्वा । तत्थ णं बहवे भवणवइवाणमंतरजोइसियवेमाणिया | Jain Education Inter For Private & Personel Use Only A ww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy