________________
Jain Education
नमयति नमयित्वा च ईषत्प्रत्युन्नमयति, ईषत्प्रत्युन्नम्य कनकत्रुटितस्तंभितौ भुजौ ' संहरति ' सङ्कोचयति, संहृत्य करतलपरिगृहीतं शिरस्यावर्त्त मस्तकेऽञ्जलिं कृत्वैवमवादीत् - ' नमोत्थु णं ' इत्यादि । इति श्रीजीवाभिगमसूत्रवृत्तितृतीयप्रतिपतिमन्दरोद्देशके ३१३ प्रतौ १७२ पत्रे ॥ ५ ॥
केचिच्चाज्ञानिनो विद्याचारणादिलब्धिमतः श्रमणान् लब्ध्युपजीविनः प्रमादिनो न किञ्चिदेते इत्यादिभिर्वचनैः प्रतिमावन्दनवैरेण निन्दन्ति, तच्च तेषामनन्तसंसारकारणम्, यतस्ते हि महानुभागाः सुतरां नमस्याः यदेतेषां प्रभावेण लवणसमुद्रो जंबूद्वीपं नावपीडयति । तथा च सिद्धान्तः
कम्हा णं भंते ! लवणसमुद्दे जंबुद्दीवं दीवं नो उवीलेह १ नो उप्पीलेइ १ नो चेव णं एक्कोदगं करेइ १ गोयमा ! जंबुद्दीवेणं दीवे भरवसु वासेसु अरिहंतचक्कवट्टिबलदेवा वासुदेवा चारणा विजाहरा समया समणीओ सावया सावियाओ मणुया पगइभद्दया पगइविणीया पगइउवसंता पगइपयणुकोहमाणमाया लोभा मिउमद्दवसंपमा अल्लीणा महगा विणीया, सि णं पणिहाते लवणसमुद्दे जंबुद्दीवं दीवं नो उब्बीलेइ नो चेव णं एक्कोदगं करेइ इति । वृत्तिर्यथा - - ' कम्हा णं इत्यादि, कस्माद् भदन्त ! लवणसमुद्रो जंबूद्वीपं द्वीपं नावपीडयति- जलेन न प्लावयति १ नोत्पीडयति - प्राबल्येन न बाधते ?, '' इति वाक्यालंकृतौ, एकोदकं सर्वात्मना उदकप्लावितं न करोति १, भगवानाह - गौतम ! जंबूद्वीपे - भरतैरावतयोः क्षेत्रयोरतवक्रवर्त्तिनो बलदेवा वासुदेवाः चारणा- जङ्घाचारणमुनयो विद्याधराः श्रमणाः - साधवः श्रमण्यः - संयत्यः श्रावकाः श्राविकाः एतत्सुषम दुष्पमाधारकत्रय वर्त्तिनमपेच्योक्तं वेदितव्यम्, तत्रैवार्हदादीनां यथायोगं सम्भवात् सुषमसुषमादिकमधिक
national
For Private & Personal Use Only
www.jainelibrary.org