SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ रत्नाकर विचार ॥ १॥ युगलानि 'नियंसेइ' इति परिधापयति, परिधाप्यारभुक्तैर्वरैः प्रधानैर्गन्धैर्माल्यैश्चार्चयति । एतदेव सविस्तरमुपदर्शयतिपुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूरोपणं गन्धारोपणं आभरणारोपणं (च) करोति, कृत्वा तासां जिनप्रतिमानां पुरतोऽच्छैः-स्वच्छैःश्लक्ष्णैः-मसणे रजतमयैः, अच्छो रसो येषां ते अच्छरसाः प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः, ते च ते तन्दुलाश्च अच्छरसतन्दुलाः पूर्वपदस्य दीर्घान्तता प्राकृतत्वात । यथा 'वइरामया नेमा' इत्यादौ, देवाः तैरष्टावष्टौ स्वस्तिकादीनि मङ्गलकान्यालिखति, आलिख्य 'कयग्गाहग्गहीयं' इत्यादि, मैथुनप्रथमसंरम्भे मुखचुम्बनायथं युवत्याः पश्चागुलिभिः केशेषु ग्रहणं कचग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविमुक्तम् , प्राकृतत्वात्पदव्यत्ययः, तेन दशार्द्धवर्णेन-पञ्चवर्णेन कुसुमेन कुसुमसमृहेन पुष्पपुञ्जोपचारकलितं, पुष्पपुञ्ज एव उपचारः पुष्पपुञ्जोपचारः तेन कलितंयुक्तं करोति कृत्वा च 'चंदप्पभवइरवेरुलियविमलदंडं ' चन्द्रप्रभवज्रवैडूर्यमयो विमलो दण्डो यस्य सः तथा तं काञ्चनमणिरत्नभक्तिचित्रं कालागुरुपवरकुन्दुरुकतुरुष्कधूपेन गन्धोत्तमेनानुविद्धा कालागुरुपवरकुन्दुरुकतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वात्पदव्यत्ययः, तां धूपवर्ति विनिर्मुश्चन्तं वैडूर्यमयं धूपकडुच्छुकं प्रगृह्य प्रयतो धूपघटीतो धूपं दत्त्वा जिनवरेभ्यः, सूत्रे षष्ठी प्राकृतत्वात् , सप्ताष्टानि पदानि पश्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके कृत्वा प्रयतः 'अट्ठसयविसुद्धगंथजुत्तेहिं ' ति । विशुद्धो-निर्मलो लक्षणदोषरहित इति भावः, यो ग्रन्थः-शब्दसन्दर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि अष्टशतं च तानि विशुद्धग्रन्थयुक्तानि च तैरर्थयुक्तैरर्थसारैरपुनरुक्तर्महावृत्तस्तथाविधदेवलब्धेः प्रभावः एषः, संस्तौति संस्तुत्य वाम जानुमञ्चति-उत्पाटयति दक्षिणं जानुं धरणितले 'निवाडेइ ' इति निपातयति लगयतीत्यर्थः, त्रिकृत्वः-त्रीन् वारान् मूर्दानं घरणितले INE Jain Education in de final For Private & Personel Use Only बाwww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy