SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ दृश एव, सम्यग्दृशां विमानघर्जायुर्वन्धाभावात, सिद्धान्तश्चायम्N तत्थ णं बहवे वाणमंतरा देवा देवीओ य आसयंति सयंति चिट्ठति णिसीदन्ति तुयद्दति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिमाणं सुपरिकंताणं सुभाणं कल्लाणाणं कडाणं कम्माणं फलवित्तिविसेसं पच्चणुब्भवमाणा विहरंति ॥ । इति । वृत्तिर्यथा-'तत्थ ' इति तत्र तेषु उत्पादपर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथिवीशिलापटकेषु ‘णं' इति पूर्ववत् बहवो वानमन्तरा देवा देव्यश्च यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्त्तन्ते न तु निद्रां कुर्वन्ति तेषु देवयोनिकतया निद्राऽभावात्, तिष्ठन्ति-ऊर्ध्वस्थानेन वर्त्तन्ते, निषीदन्ति-उपविशन्ति, 'तुयटृति' इति त्वग्वर्त्तनं कुर्वन्ति वामपार्श्वतः परावृत्य दक्षिणपार्श्वेन तिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्य वामपार्श्वेनावतिष्ठन्ते, रमन्ते-रतिमावघ्नन्ति, ललन्तिव मनईप्सितं यथा भवति तथा वर्तन्ते इति भावः, क्रीडन्ति-यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन वा तिष्ठन्ति, मोहन्ति-मैथुनसेवां कुर्वन्ति इत्येवम्, 'पुरा पोराणाणं' इत्यादि, पुरा-पूर्व प्राग्भवे इति भावः। कृतानां कर्मणामिति योगः । अत एव पौराणानां सुचीर्णानां-सुचरितानामिह सुचरितजनितं कर्मापि कार्ये कारणोपचारात्सुचरितमिति विवक्षितम् , ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिषु सुचरितानामिति, तथा सुपराक्रान्तानामत्रापि कारणे कार्योपचारात्मपराक्रान्तजनितानि कर्माण्येव सुपराकान्तानि, इत्युक्तं भवति, सकलसत्त्वमैत्रीसत्यभापणपरद्रव्यानपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभानां शुभफलानां, इह किञ्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्विकशुभत्वप्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह-कल्याणानां-तत्त्ववृत्त्या तथाविध JainEducation For Private Personal use only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy