SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ४॥ तद्यथा-त्रसकाये च स्थावरकाये च, 'एवामेव ' इत्यादि, एवमेव उक्तेनैव प्रकारेण 'सपुव्यावरेणं' ति, पूर्व चापरं च पूर्वापरं सह पूर्वापरं येन स सपूर्वापर उक्तप्रकारस्तेन उक्तविषयपूर्वापरपर्यालोचनयेति भावार्थः। 'आजीवगदिद्रुतणं' ति,आ-सकलजगदभिव्याप्या जीवानां यो दृष्टान्त:-परिच्छेदः स आजीवदृष्टान्तस्तेन सकलजीवनिदर्शनेनेत्यर्थः, आह च मूलटीकाकार:आजीवकदृष्टान्तेन सकलजीवनिदर्शनेने ' ति चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीत्याख्यातं मया अन्यैश्च ऋषभादिभिरिति । अत्र चतुरशीतिसङ्घयोपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथा हि-पक्षिणां द्वादशजातिकुलकोटियोनिप्रमुखशतसहस्राणि, भुजगपरिसर्पाणां नव, उरगपरिसर्पाणां दश, चतुष्पदानां दश, जलचराणामर्द्धत्रयोदशानि, चतुरिन्द्रियाणां नव, त्रीन्द्रियाणामष्टौ, द्वीन्द्रियाणां सप्त, पुष्पजातीनां षोडश । एतेषां चैकत्र मीलने त्रिनवतिर्जातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्दानि भवन्ति, ततश्चतुरशीतिसङ्खथोपादानमुपलक्षणमवसेयं, न चैतद्वयाख्यानं स्वमनीषिकाविज्रभितम् , यत उक्तं चूौँ ' आजीवगदिढतेणं' ति, अशेषजीवनिदर्शनेन चउरासीजातिकुलकोटियोनिप्रमुखशतसहस्रा एतत्प्रमुखा अन्येऽपि विद्यन्ते । इति श्रीजीवाभिगमसूत्रवृत्तितृतीयप्रतिपत्तौ तिर्यगधिकारे प्रथमोद्देशके २६४ प्रतो ८० पत्रे ॥ ३ ॥ केचिच्च मिथ्यात्विकृतानि सर्वसत्त्व मैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपाणि मार्गानुसारिधर्मकर्तव्यान्यपि निष्फलान्येव इत्याहुः तच्चाज्ञानविलसितं वेदितव्यम् , यतो व्यन्तरदेवाः प्राग्जन्मकृताना सुचीर्णानां सुचरितानां शुभफलाना । सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिकर्मणां फलमनुभवन्तीति सिद्धान्तेऽभिहितम् , ते च प्राग्जन्मनि मिथ्या- ॥८६॥ Jain Education intolhaha For Private & Personel Use Only DIww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy