SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ तह फासेहि य चउहिं पसत्थेहिं ॥२॥" अत्र 'जाईए गंधंगा' इति जात्या-जातिभेदेनानि गन्धाङ्गानि, शेष भावितम् । कइ णं' इत्यादि, कति भदन्त ! पुष्पजातिकुलकोटिशतसहसाणि प्रज्ञप्तानि?, भगवानाह-गौतम ! षोडश पुष्पजातिकुल-। | कोटिशतसहस्राणि प्राप्तानि, तद्यथा-चत्वारि जलजानां पद्मानां जातिभेदेन, चत्वारि स्थलजानां कोरण्टकादीनां जातिभेIR देन, चत्वारि महागुल्मिकादीनां जात्यादीनाम् , चत्वारि महावृक्षाणां मधूकादीनामिति । 'कह णं' इत्यादि, कति भदन्त ! वल्लयः ? कति वल्लिशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! चतस्रो वल्लयः स्रग्पुष्पादिमूलभेदेन, ताश्च मूलटीकाकृता वैविक्येन न व्याख्याता इति संप्रदायादवसेयाः, चत्वारि वल्लिशतान्येवान्तरजातिभेदेन । 'कइ णं' इत्यादि, कति भदन्त ! लताः कति लताशतानि प्रज्ञप्तानि ?, भगवानाह-गौतम! अष्टौ लता नागलताद्या या मूलभेदेन ता अपि संप्रदायादवगन्तव्याः मूलटीकाकारेणाव्याख्यानात , अष्टौ लताशतानि प्रज्ञप्तानि अवान्तरजातिभेदेन । 'कह णं' इत्यादि, कति भदन्त ! हरितकायाः कति हरितकायशतानि प्रज्ञप्तानि ? भगवानाह-गौतम ! यो हरितकायाः प्रज्ञप्ता:-जलजाः स्थलजाः उभयजाः, एकैकस्मिन् शतमवान्तरभेदानामिति, त्रीणि हरितकायशतानि । फलसहस्सं च' इत्यादि, फलसहस्रं च वृन्तबद्धानां वृन्ताकप्रभृतीनां, फुलसहस्रं च नालबद्धानाम् , 'ते वि सम्वे' इत्यादि, तेऽपि सर्वे भेदाः, अपिशब्दादन्येऽपि तथाविधा हरितकायमेव समवतरन्ति, हरितकायेऽन्तर्भवन्ति, हरितकायोऽपि वनस्पती, वनस्पतिरपि स्थावरेषु, स्थावरा अपि जीवेषु । तत एवं समनुगम्यमानाः समनुगम्यमानाः तथा जात्यन्तर्भावेन स्वत एव सूत्रतः, तथा समनुग्राह्यमानाः२ परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः२ | अनुप्रेक्षया-अालोचनरूपया, तथा समनुचिन्त्यमानाः२ तथा तथा तन्त्रयुक्तिभिरेतयोरेव द्वयोः काययोः समवतरन्ति, Jain Education Inter na For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy