________________
विचार
रत्नाकर
||८८॥
कुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, एवं त्रीन्द्रियाणामष्टौ जातिकुलकोटियोनिप्रमुखशतसहस्राणि, द्वीन्द्रियाणां सप्त जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि । इह जातिकुलकोट्यो योनिजातीयास्ततो भिन्नजातीयाभिधानप्रसङ्गतो । गन्धाङ्गानि भिन्नजातीयत्वात् प्ररूपयति-'कइ णं' इत्यादि, कति भदन्त ! गन्धाङ्गानि कचिद्गन्धा इति पाठः तत्र पदैकदेशे पदसमुदायोपचारात् गन्धा इति गन्धाङ्गानीति द्रष्टव्यानि प्रज्ञप्तानि ? तथा गन्धाङ्गशतानि प्रज्ञप्तानि ? भगवानाह-गौतम ! सप्त गन्धाङ्गानि सप्त गन्धाङ्गशतानि प्रज्ञप्तानि, इह सप्त गन्धाङ्गानि परिस्थूरजातिभेदादमूनि, तद्यथा--मूलं त्वक्र काष्ठं३ निर्यासः४ पत्रं५ पुष्पं६ फलं७ च । तत्र मूलं मुस्ताबालकोशीरादि१, त्वक् सुवर्णच्छल्लीत्वचाप्रभृति२, काष्ठं चन्दनागुरुप्रभृति३, निर्यासः कर्पूरादि४, पत्रं जातिपत्रतमालादि५, पुष्पं प्रियङ्गुनागरपुष्पादिर्द, फलं जातिफलकर्कोलकैलालवङ्गप्रभृति७, एते च वर्णमधिकृत्य प्रत्येकं कृष्णादिभेदात्पञ्चपञ्चभेदा इति वर्णपञ्चकेन गुण्यन्ते जाताः पञ्चत्रिंशत् , गन्धचिन्तायामेते सुरभिगन्धय एवेत्येकेन गुणिताः पञ्चत्रिंशजाताः पञ्चत्रिंशदेव एकेन गुणितं तदेव भवती' ति न्यायात्, तत्राप्येकैकस्मिन् वर्णभेदे रसपञ्चकं द्रव्यभेदेन विविक्तं प्राप्यते इति सा पञ्चविंशत् रसपञ्चकेन गुण्यते जातं पञ्चसप्ततिशतम् , स्पर्शाश्च यद्यप्यष्टौ भवन्ति तथाऽपि गन्धाङ्गेषु यथोक्तरूपेषु प्रशस्या व्यवहारतश्चत्वार एव मृदुलघुशीतोष्णरूपाः, ततः पश्चससतिशतं स्पर्शचतुष्टयेन गुण्यते, जातानि सप्तशतानि । उक्तं च--" मूलतयकट्ठनिजास, पत्तपुष्फफलमेयं गंधंगा। वहादुत्तरभेया, गंधंगसया मुणेयवा ॥ १॥" अस्या व्याख्यानरूपं गाथाद्वयम्--" मुत्था सुवासच्छन्ना, अगुरू बाला तमालपेत्तं च । तह य पियंगू जाईफलं च जाईए गंधंगा ॥१॥ गुययाए सत्तसया, पंचहि वमेहि सुरभिगंधेणं । रसपणगेणं
॥८॥
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org