SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ व्यम् । अनुत्तरोपपातिककल्पातीतदेवपुरुषस्य जघन्यतोऽन्तरं वर्षपृथक्त्वम् , उत्कर्षतः सङ्ख्ययानि सागरोपमाणि सातिरेकाणि, तत्र सवयेयानि सागरापमाणि तदन्यवैमानिकेषु सङ्घयेयवारोत्पत्त्या सातिरकाणि मनुष्यभवैः । तत्र सामान्याभिधानेऽप्येतदपराजितान्तमवगन्तव्यम् , सर्वार्थसिद्धेः सकृदेवोत्पादतस्तत्रान्तरासम्भवात् । अन्ये त्वभिदधति-भवनवासिन आरभ्य आईशानादमरस्य जघन्यतोऽन्तर्मुहूर्तम् । सनत्कुमारादारभ्यासहस्रारानवदिनानि । श्रानतकल्पादारभ्याच्युतकल्पं यावन्नवमासाः।। नवसु ग्रैवेयकेषु सर्वार्थसिद्धमहाविमानवर्जेष्वनुत्तरविमानेषु च नववर्षाणि । ग्रैवेयकान् यावत् सर्वत्रापि उत्कर्षतो वनस्पतिकालः । विजयादिषु चतुर्यु महाविमानेषु द्वे सागरोपमे । उक्तं च-"आईसाणादमरस्स, अंतरं हीणयं मुहुर्ततो । आसहसारे अच्चुय-णुत्तरदिणमासवासनव ।॥ १॥ थावरकालुक्कोसो, सव्वढे बीयो न उववाओ, दोअयरा विजयाइसु"। इति श्रीजीवाभिगमसूत्रवृत्तौ द्वितीयप्रतिपत्तौ २६४ प्रतौ ४३ पत्रे ॥ १॥ अथ यैः कारणैारकाणां सातोदयो भवति तानि लिख्यन्ते उववाएण व सायं, नेरहयो देवकम्मुणा वावि । अज्झवसाणनिमित्तं, अहवा कम्माणुभावणं ॥१॥ इति । वृत्तिर्यथा'उववाएण' इत्यत्र सप्तम्यर्थे तृतीया, उपपातकाले सात-सातवेदनीयकर्मोदयं कश्चिद्वेदयते यः प्राग्भवे दापच्छेदादिव्यतिरेकेण मरणमुपगतोऽनतिसंक्लिष्टाध्यवसायी समुत्पद्यते, तदानीं हि न तस्य प्राग्भवानुबद्धं प्राधिरूपं दुःखं नापि क्षेत्रस्वभाव नापि परमाधार्मिककृतं, नापि परस्परोदीरितम्, तत एवंविधदुःखाभावादसौ सातं वेदयते, इत्युच्यते ॥१॥ 'देवकम्मुणावावि ' इति देवकर्मणा पूर्वसागतिकदेवप्रयुक्तया क्रियया, तथाहि-गच्छति पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य en Education For Private Personal use only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy