SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकर ॥ सुमनःसन्ततिसेव्या, रसरुचिरा प्रोच्चगोत्रसंभूता । विमलीकृतजननिवहा, जिनवाणी जयति गङ्गेच ॥१॥ अथ क्रमायाताः श्री जीवाभिगमविचारा यथा५॥ देवभवाच्युत्वा पुनरपि यावता कालेन देवः स्यात्तल्लिख्यते देवपुरिसस्स णं भंते ! कालो केवञ्चिरं होइ ? गोयमा ! जहमेणं अंतोमुहुत्तं उक्कोसेणं वणस्सइकालो, भवणवासि| देवपुरिसाणं ताव जाव सहस्सारो जहणं अंतोमुहुत्तं उक्कोसेणं वणस्सतिकालो । आणतदेवपुरिसस्स णं भंते ! केवति कालं अंतरं होइ ? गोयमा ! जहनेणं वासपुहुत्तं उक्कोसेणं वणस्सतिकालो, एवं जावगेवेजदेवपुरिसस्सवि, अणुत्तरोववातिय| देवपुरिसस्स जहन्नेणं वासपुहुत्तं उक्कोसेणं संखेजाइं सागरोवमाइं साइरेगाई इति। वृत्चिर्यथा-'देवपुरिसस्स णं भंते !' इत्यादि, देवपुरुषस्य भदन्त! कालतः कियच्चिरं अन्तरं भवति ? भगवानाह-गौतम ! जघन्येनान्तर्मुहूर्त देवभवाच्युत्वा गर्भव्युत्क्रान्तिकमनुष्येषूत्पद्य पर्याप्तिसमाप्त्यनन्तरं तथाविधाध्यवसायमरणेन भूयोऽपि कस्यापि देवत्वेनोत्पादसंभवात् , उत्कर्षतो वनस्पतिकालः । एवमसुरकुमारादारभ्य निरन्तरं तावद्वक्तव्यं यावत्सहस्रारकल्पदेवपुरुषस्यान्तरम् , अानतकल्पदेवस्यान्तरं जघन्येन | वर्षपृथक्त्वं कस्मादेतावदिहान्तरमिति चेदुच्यते-इह यो गर्भस्थः सर्वाभिः पर्याप्तिभिः पर्याप्तः शुभाध्यवसायोपेतो मृतः। सन् नतकल्पादारतो ये देवास्तेषूत्पद्यते, नानतादिषु तस्य तावन्मात्रकालस्य तद्योग्याध्यवसायविशुद्धयभावात् , ततो IN] य आनतादिभिश्युतः सन् भूयोऽप्यानतादिषूत्पत्स्यते सनियमाच्चारित्रमवाप्य, चारित्रं चाष्टमे वर्षे, तत उक्तं जघन्यतो वर्ष पृथक्त्वं, उत्कर्षतो वनस्पतिकालः। एवं प्राणतारणाच्युतकल्पग्रैवेयकदेवपुरुषाणामपि प्रत्येकमन्तरं जघन्यत उत्कर्षतश्च वक्त-d ८५॥ Jain Education In For Private & Personel Use Only Yi www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy