________________
देति वदन्ति । ते चोभयेऽपि मिथ्यावादिनो द्रष्टव्याः। 'चाउद्दसहमुद्दिटुपुमिमासिणीसु" इत्यत्र चतुर्दशीपौर्णमास्योः, चतुर्दश्यमावास्ययोरेव(वा)प्राराध्यत्वेनोक्तत्वात् , सुबाहुकुमारेण पौषधत्रयस्य कृतत्वाच । तत्सूत्रं चेदम्
“तते णं से सुबाहुकुमारे समणोवासए जाए, अहिगयजीवाजीवे जाव पडिलाभेमाणे विहरइ । तते णं से सुबाहुकुमारे अमदा कदाइ चाउद्दसट्टमुद्दिट्टपुणिमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति, २ ता पोसहसालं पमजति २त्ता उच्चारपासवणभूमि पडिलेहेइ २ ता दब्भसंथारं संथरेइ २त्ता दब्भसंथारं दुरूहइ २त्ता अट्ठमभत्तं पगिन्हति, पगिन्हेत्ता पोसहसालाए पोसहिए अट्ठमभत्तिए पोसह पडिजागरमाणे विहरति ।" इति विपाकद्वितीयश्रुतस्कन्धप्रथमाध्ययने ४६ प्रतौ ४४ पत्रे ॥२॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहरिविजयमूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीविपाकविचारनामा एकादशस्तरङ्गः॥११॥
समाप्तं चेदं विचाररत्नाकरे प्राच्यं तटम् ।। अनेकसिद्धान्तविचाररत्नारम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरनामशास्त्रे, प्राच्य तटं प्राप्तमिदं समाप्तिम् ॥१॥ पदैस्त्रिाभिर्येन समस्तमेतत् त्रैलोक्यमाक्रान्तमहो महीयः । सनातनं तं नरकान्तकं च, सिद्धान्तगोविन्दमहं श्रयामि ॥२॥ अथानुक्रमायाता उपाङ्गविचाराः प्रस्तूयन्ते । तत्र प्रथममौपपातिकविचारा यथा
Jain Education Internal
For Private & Personel Use Only
IAcw.jainelibrary.org