________________
विचार
रत्नाकरः
॥७९॥
भमशुभं वा कृतकं-पुरुषकारनिष्पन्न, कृतं-च कार्य प्रयोजनमित्यर्थः, पाठान्तरेण--'नत्थि किंचि कयकं तत्तं ' तत्र तत्त्वं
वस्तुस्वरूपमिति, तथा लक्षणानि-वस्तुरूपाणि विधाश्च-भेदा लक्षणविधाः तासां लक्षणविधानाम् नियतिश्च-स्वभावविशेषश्च की कारिका-की, सा च पदार्थानामवश्यन्तया यद्यथा भवने प्रयोजयित्री भवितव्यतेत्यर्थः । अन्ये वाहुः-यद् मुद्गादीनां राद्धि
स्वभावत्वमितरद्वा स स्वभावः यच्च राद्धावपि नियतरसत्वं न शाल्यादिरसता सा नियतिरिति, तत्र चोक्तम्-"न हि भवति यन्नभाव्यं, भवति च भाव्यं विनाऽपि यत्नेन । करतलगतमपि नश्यति, यस्य तु भवितव्यता नास्ति ॥१॥" असत्यता चास्य पूर्ववद्वाच्या, एवमित्युक्तप्रकारेण केचिन्नास्तिकादयो जम्पन्ति-ऋद्धिरससातगौरवपरा ऋद्ध्यादिषु गौरवं-भादरस्तत्प्रधाना इत्यर्थः । इति श्रीप्रश्नव्याकरणद्वितीयाश्रवद्वारवृत्तौ ८६ प्रतौ १६-१७-१८-१९ । पत्रे ॥१॥
ननु सांसारिककार्यनिमित्तं द्रौपद्यादिभिः पूजितत्वात् संसारनिमित्तमेव प्रतिमा दृश्यन्ते, न तु मुक्तिनिमित्तम् , यदि च मुक्तिनिमित्तं स्यात्तदा मुनीनामपि कुत्रापि निरवद्यं प्रतिमावन्दनमप्युक्तं स्यात्, अत्रोच्यते-अरे कुमतग्रस्त ! मुनीनामपि अत्यन्तबालादीनां चैत्यान्तानां यथोचितं वैयावृत्त्यं कर्त्तव्यमुक्तम्, तत्र चैत्यस्य तु अनादिसंपादनादिकं शरीरविश्रामणादिकं चायौक्तिकमिति वन्दनस्तवनादिकमेव तद्वैयावृत्त्यं, ततो मुनीनामपि चैत्यवन्दनस्तवनमुक्तमेव द्रष्टव्यम्, वैयावृत्त्यसूत्रं चेदम्
अह केरिसए पुणाई आराहइ वयमिणं ? जे से उवहिभत्तपाणसंगहणादाणकुसले अच्छतवाल १ दुब्बल २ गिलाण ३ वुड ४ खवगे ५ पवत्ति ६ आयरिय ७ उवज्झाए ८ सेहे साहम्मिए १० तवस्सी ११ कुल १२ गण १३ संघ १४ | चेइयढे १५ निजरडी वेयावच्चं अणिस्सियं दसविहं बहुविहं करेह ।। इति । वृत्तिर्यथा-अथ-परिप्रश्नार्थे कीदृशः पुनः 'आई'
H॥ ७
॥
Jain Education into
a
For Private & Personel Use Only
www.jainelibrary.org