________________
असञ्चैतन्मुक्तामुक्तयोरेवमविशेषप्रसङ्गात्, पाठान्तरम्-'अन्नो य लेवउ'त्ति तत्रान्यश्चापरो लेपतः कर्मवन्धनादिति, एतदप्यसत् व कथञ्चिदिति शब्दानुपादानात् , इत्यपि च, इति-उपदर्शने अपि च-अलीकवादान्तरसमुच्चयार्थः, तथा एवं वक्ष्यमाणप्रका
रेण 'आईसु' ति ब्रुवते स्म असद्भाव-असन्तमर्थ यदुत यदपि-यदेव सामान्यतः सर्वमित्यर्थः, इह-अस्मिन् किश्चिद्-अविवक्षितविशेषं जीवलोके-मर्त्यलोके दृश्यते, सुकृतं वा आस्तिकमतेन सुकृतफलं सुबमित्यर्थः, दुष्कृतं वा दुष्कृतफलं दुःखमित्यर्थः, एतत् 'जइच्छाए व ' ति यदृच्छया वा स्वभावेन चापि दैवतप्रभावतो वापि-विधिसामर्थ्यतो वाऽपि भवति, न पुरुषकारः कर्म वा हिताहितनिमित्तमिति भावः, तत्र अनभिसन्धिपर्विकार्थप्राप्तिर्यदृच्छा, पठ्यते च-"अतर्कितोपस्थितमेव सवे, चित्रं जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिधातो. न बुद्धिप्रर्वोत्र वृथाऽभिमान ॥१॥" तथा-"सत्यं
पिशाचाः स वने वसामो, भेरी करात्रैरपि न स्पृशामः । यदृच्छया सिध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति INI॥२॥” इति, स्वभावः पुनर्वस्तुतः खत एव तथा परिणति भावः, उक्तं च-"कः कण्टकानां प्रकरोति तैक्षण्यं, विचित्र
भावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः ॥३॥" इति । दैव-विधिरिति लौकिकी | भाषा, तत्रोक्तम्-..." प्राप्तव्यमर्थ लभते मनुष्यः, किं कारणं दैवमलकनीयम् । तस्मान शोचामि न विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् ॥ ४॥ द्वीपादन्यस्मादपि, मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति, विधिरभिमतसभिमुखीभूतः ॥ ५॥" इति, असदभूतता चात्र प्रत्येकमेषां. जिनमतप्रतिकृष्टत्वात, तथाहि-"कालो सहाव नियई, पुवकयं पुरिसकारणेगता | मिच्छत्तं ते चव उ, समासो होति सम्मत्तं॥शा"इति तथा नास्ति-न विद्यतेऽत्र लोक किाश्वच्छु
JanEducation indian
For Private
Personel Use Only