SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकरः ॥ ७८॥ एकधा बहुधा चैव, दृश्यते जलचंद्रवत् ॥१॥" तथा " पुरुष एवेदं निं सर्व यद्भूतं यच्च भाव्यम्" इत्यादि, कुदर्शनता चास्य सकललोकविलोक्यमानभेदनिबन्धनव्यवहारोच्छेदप्रसङ्गात् , तथा अकारकः-सुखदुःखहेतूनां पुण्यपापकर्मणामक - त्मेत्यन्ये वदन्ति, अमूर्त्तत्वनित्यत्वाभ्यां कर्तृत्वानुपपत्तेरिति, कुदर्शनता चास्य संसार्यात्मनो मूर्त्तत्वेन परिणामित्त्वेन च कर्तृत्वोपपत्तेः, अकर्तृत्वे च अकृताभ्यागमप्रसङ्गात् , तथा वेदकश्च-प्रकृतिजनितस्य सुकृतस्य दुष्कृतस्य च प्रतिबिंबोदयन्यायेन भोक्ता, अमूर्त्तत्वे हि कदाचिदपि वेदकता न युक्ताऽऽकाशस्येवेति कुदर्शनताऽस्य तथा सुकृतदुष्कृतस्य, च कर्मणः करणानिइन्द्रियाणि कारणानि-हेतवः सर्वथा-सर्वप्रकारैः सर्वत्र देशे काले च न वस्त्वन्तरं कारणमिति भावः, करणान्येकादशः, तत्र वाक्पाणिपादपायूपस्थलक्षणानि पञ्च कर्मेन्द्रियाणि स्पर्शनादीनि तु पञ्च बुद्धीन्द्रियाणि एकादशं च मनः इति, एषां चाचेतनावस्थायामकारकत्वात्पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य, तथा नित्यश्चासौ, यदाह-"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति (नैनं वहति) मारुतः ॥१॥ अच्छेद्योऽयमभेद्योऽयममूर्तोऽयं सनातनः" इति, असच्चैतदेकान्तनित्यत्वे हि सुखदुःखबन्धमोक्षाद्यभावप्रसङ्गात् , तथा निष्क्रियः सर्वव्यापित्वेनावकाशाभावाद्गमनागमनादि क्रियावर्जितः, असच्चैतदेहमात्रोपलभ्यमानतद्गुणत्वेन तनियतत्वात् , तथा निर्गुणश्च सत्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेव ह्येते गुणा इति, यदाह-"अकर्ता निर्गुणो भोक्ता, आत्मा कपिलदर्शने।" इति, प्रसिद्धं चास्य सर्वथा निर्गुणत्वं 'चैतन्यं पुरुषस्य स्वरूपं' इति अभ्युपगमात् , तथा 'अणुवलेवउ' त्ति अनुपलेपकः कर्मबन्धनरहितः, आह च" यस्मान्न बध्यते नापि, मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च, नानाश्रया प्रकृतिः ॥ १॥" इति । ॥७८॥ Jain Education a l For Private Personel Use Only vww.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy