________________
सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥७॥" इति । एवमुक्तक्रमेणैतदनन्तरोदितं वस्तु अलीकं भ्रान्तज्ञानिभिः प्ररूपितत्वात , तथा प्रजापतिना-लोकप्रभुणा ईश्वरेण च-महेश्वरेण च कृतं-विहितमिति केचिद्वादिनो भणन्तीति प्रकृतं, भणन्ति चेश्वरवादिनः-बुद्धिमत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वात् घटादिवदिति, कुदर्शनता चास्य वन्मीकबुबुदादिभिर्हेतोरनैकान्तिकत्वात, कुलालादितुल्यस्य बुद्धिमत्कारणस्य साधनेन चेष्टविघातकारित्वादिति, तथा एवं यथा ईश्वरकृतं तथा विष्णुमयं-विष्णवात्मकं कृत्स्नमेव जगदिति केचिद्वदन्तीति प्रकृतं, भणन्ति च एतन्मतावलंबिन:-"जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः, सर्व विष्णुमयं जगत् ।।१।।" तथा-"अहं च पृथिवी पार्थ ! वाय्वग्निजलमप्यहम् । वनस्पतिगतश्चाहं, सर्वभूतगतोऽप्यहम् ॥ २॥" तथा-"सो किल जलयसमुत्थेणुदएणगन्नवंमि लोगमि। बीतीपरंपरेणं घोलतो उदयमझमि ॥३॥" स किल मार्कण्डर्षिः "पेच्छइ सो तसथावरपणट्ठसुरनरतिरिक्खजोणीयं । 17 एगन्नवं जगमिणं महाभूयविवज्जियं गुहिरं ॥ ४ ॥ एवंविहे जगंमी, पेच्छइ निग्गोहपायवं सहसा । मंदरगिरिं व तुंगं महासमुद्दव विच्छिन्नं ॥५॥ खंधमि तस्स सयणं, अच्छइ तहिं बालो मणभिरामो। [विष्णुरित्यर्थः] संविद्धो सुद्धहियो मिउकोमलकुंचियसुकेसो ॥ ६ ॥ हत्थो पसारिओ से, महरिसिणा एहि तत्थ भणिो य। खंधे ममं विलग्गसु, मा मरिहिसि
उदगवडीए ॥७॥ तेण य घेत्तुं हत्थे, उ मीलिश्रो सो रिसि तो तस्स पिच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं ॥८॥" N| ति, पुनः सृष्टिकाले विष्णुना सृष्टम्, कुदर्शनता चास्य प्रतीतिबाधितत्वात् , तथा एवं वक्ष्यमाणेन न्यायेन एके-केचनात्मा
द्वैतवाद्यादयो वदन्ति मृषा-अलीकं यदुत एक आत्मा, तदुक्तम्-" एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।
For Private
Jan Education Intematon
www.jainelibrary.org
Personal Use Only