________________
प्यस्ति पुरुषकारः, तं विनैव नियतितः सर्वप्रयोजनानां सिद्धेः, उच्यते च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्य भवति नृणां शुभो'शुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नामाव्यं भवति न भाविनोऽस्ति नाशः ॥१॥" मृषावादिता चैषां सकललोकप्रतीतपुरुषकारापलापेन प्रमाणातीतनियतिमताभ्युपगमादिति । तथा प्रत्याख्यानमपि नास्ति धर्मसाधनतया धर्मस्यैवाभावादिति, अस्य च सर्वज्ञवचनप्रामाण्येनास्तित्वात्तद्वादिनामसत्यता । तथा नैवास्ति कालमृत्युः तत्र कालो नास्ति अनुपलम्भाव, यच्च वनस्पतिकुसुमादिकाललक्षणमाचक्षते तत्तेषां स्वरूपमिति मन्तव्यम्, असत्यता चैषामपि स्वरूपस्य वस्तुनोऽनतिरेकात् कुसुमादिकरणमकारणं तरूणां स्यात् । तथा मृत्यु:-परलोकप्रयाणलक्षणोऽसावपि नास्ति, जीवाभावेन परलोकगमनाभावात्, अथवा कालक्रमेणविवक्षितायुष्ककर्मणः सामस्त्यनिर्जरावसरे मृत्युः कालमृत्युः, तदभावश्वायुष एवाभावात् , तथा अईदादयो 'नत्थि' त्ति न सन्ति प्रमाणाविषयत्वात् । 'नेवत्थि केवि रिसओ' त्ति नैव सन्ति केचिदपि ऋषयो-गौतमादिमुनयः प्रमाणाविषयत्वादेव, वर्तमानकाले वा ऋषित्वस्य साध्वनुष्ठानस्यासत्त्वात् , सतोऽपि वा निप्फलत्वादिति अत्र शिष्यादिप्रवाहानुमेयत्वादईदादिसत्त्वस्यानन्तरोक्तत्वात् वादिनामसत्यता । ऋषित्वस्यापि सर्वज्ञवचनप्रामाण्येन सर्वदा भावादित्याज्ञाग्राह्यार्थापलापिनां सर्वत्रासत्यवादिता भावनीयेति, तथा धर्माधर्मफलमपि नास्ति किश्चिद् बहुकं वा स्तोर्क वा, धर्माधर्मयोरदृष्टत्वेन नास्तित्वात् 'नथि फलं सुकय' इत्यादि, यदुक्तम्-प्राक्तत्सामान्यजीवापेक्षया यच्च 'धम्माधम्म' इत्यादि तदृश्यापेक्षयेति न पुनरुक्ततेति । 'तम्ह' त्ति यस्मादेवं तस्मादेवं-उक्तप्रकारं वस्तु विज्ञाय 'जहा सुबहुइंदियाणुकूलसु ' ति यथा-यत्प्रकाराः सुबहु-अत्यर्थमिन्द्रियानुकूला ये ते तथा तेषु सर्वेषु विषयेषु वर्तितव्यम् , नास्ति काचित् क्रिया
For Private Personal Use Only
Jain Education in
www.jainelibrary.org