SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ विचार- व्रतपौषधानां-वितरणनियमपर्वोपवासानाम् तथा तपो-अनशनादि संयमः-पृथिव्यादिरक्षा ब्रह्मचर्य प्रतीतं एतान्येव कल्याणं | रत्नाकर कल्याणहेतुत्वात् तदादिर्येषां ज्ञानश्रद्धादीनां तानि तथा तेषां नास्ति फलं-कर्मक्षयसुगतिगमनादिकम्, नापि चास्ति प्राणि॥७६॥ वधालीकवचनमशुभफलसाधनतयेति गम्यम्, न चैव-नैव चौर्यकरणं परदारसेवनं वाऽस्त्यशुभफलसाधनतयैव, सह परिग्रहेण । यद्वर्त्तते तत्सपरिग्रहं तच्च तत्पापकर्मकरणं च-पातकक्रियासेवनं तदपि नास्ति किञ्चित्क्रोधमानाद्यासेवनरूपम्, नरका दिका च जगतो विचित्रता स्वभावादेव न कर्मजनिता, तदुक्तम्-" कण्टकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता। वर्णाश्च M ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥” इति । मृषावादिता चैवमेतेषाम्-स्वभावो हि जीवाद्यर्थान्तरभूतस्तदा प्राणा तिपातादिजनितं कर्मवासौ, अथानन्तरभूतस्ततो जीव एवासौ, तदव्यतिरेकात्तत्स्वरूपवत्, ततो निर्हेतुका नारकादिविचित्रता स्यात्, न च निर्हेतुकं किमपि भवति अतिप्रसङ्गादिति । तथा न नैरयिकतिर्यग्मनुजानां योनिः-उत्पत्तिस्थानं, पुण्यपापकर्मफलभूताऽस्तीति प्रकृतम्, न देवलोको वास्तीति पुण्यकर्मफलभूतः नैवाऽस्ति सिद्धिगमनं सिद्धेः सिद्धस्य चाभावात् , अंबापितरावपि न स्तः उत्पत्तिमात्रनिवन्धनत्वात् मातापितृत्वस्य, न चोत्पत्तिमात्रनिबन्धनस्य मातापित्तया विशेषो युक्तः, यतः कुतोऽपि किश्चिदुत्पद्यते एव, यथा-सचेतनात्सचेतनं यूकामत्कुणादि अचेतनं च मूत्रपुरीषादि, अचेतनाच्च सचेतनं यथा काष्ठाद् घुणकीटकादि अचेतनं च चूर्णादि, तस्माजन्यजनकभावमात्रमर्थानामस्ति नान्यो मातापितृपुत्रादिर्विशेष इति, तदभावात्तद्भोगविनाशापमाननादिषु न दोष इति भावः, मृषावादिता चैषां वस्त्वन्तरस्य पित्रोश्च जनकत्वे समा-N नेऽपि तयोरत्यन्तहिततया विशेषवत्त्वेन सत्वात , हितत्वं च तयोः प्रतीतमेव, आह च-" दुःप्रतिकारौ" इत्यादि, ना-1॥७६ ।। Jan Education Inter For Private Personel Use Only
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy