________________
क्षितभूताभावेऽपि प्रेताद्यवस्थायां चैतन्यसद्भावाचेति ।' पंच य खंधे भणंति केई 'त्ति पंच च स्कंधान रूपवेदनाविज्ञानसंज्ञासंस्काराख्यान भणन्ति केचिदिति-बौद्धाः, तत्र रूपस्कन्धः-पृथिवीधात्वादयो रूपादयश्च वेदनास्कन्धः पुनः-सुखा दुःखा सुखदाखेति त्रिविधवेदनास्वभावः, विज्ञानस्कन्धस्तु-रूपादिविज्ञानलक्षणः, संज्ञास्कन्धश्च-संज्ञानिमित्तोद्ग्राहणात्मक: प्रत्ययः, संस्कारस्कन्धः पुनः-पुण्यापुण्यादि धर्मसमुदाय इति, न चैतेभ्यो व्यतिरिक्तः कश्चिदात्माख्यपदार्थोऽध्यक्षादिभिरवसीयते इति । तथा ' मणं च मणजीविया वदंति 'त्ति न केवलं पञ्चैव स्कन्धान् मनश्च-मनस्कारो रूपादिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धैः, मन एव जीवो येषां मते ते मनोजीवाःत एव मनोजीविका, अलीकवादिता चैषां IN सर्वथाऽननगामिनि मनोमात्ररूपे जीवे कल्पिते परलोकासिद्धेः, तदसिद्धिश्चावस्थितस्यैकस्यात्मनोऽसवान्मनोमात्रात्मनः क्षणान्तरस्यैवोत्पादात् अकृताभ्यागमादिदोषप्रसङ्गात्, कथञ्चिदनुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक एवेति । तथा-'वाउजीवोत्ति एवमाहंसु' त्ति वातः-उच्छ्वासादिलक्षणो जीव इत्याहुरेके, सद्भावाभावयोर्जीवनमरणव्यपदेशात नान्यः परलोकयाय्यात्माऽस्तीति, अलीकवादिता चैषां वायोजेंडत्वेन चैतन्यरूपजीवत्वायोगात, तथा शरीरं सादि उत्पन्नत्वात् सनिधनं क्षयदर्शनात् ' इह भवे एगे भवे' ति इह भव एव प्रत्यक्षजन्मैव एको भवः-एक जन्म नान्यः परलोकोऽस्ति प्रमाणाविषयत्वात् , तस्य-शरीरस्य विविधैः प्रकारैः प्रकृष्टो नाशो विप्रणाशस्तस्मिन् सति सर्वनाश इति नात्मा शुभाशुभरूपं वा कर्म विशिष्टमवशिष्यते इति, एतत्-एवमुक्तप्रकारं 'जंपंति' जल्पन्ति, के ? मृषावादिनः, मृषावादिता चैषां जातिस्मरणादिना जीवपरलोकसिद्धेः । तथा किमन्यद्वदन्ति ? इत्याह-यस्मात् शरीरं सादिकमित्यादि तस्माद्दान
Join Education International
For Private & Personel Use Only
www.jainelibrary.org