________________
विचार॥ ७४ ॥
Jain Education In
उवने । धस्स णं भंते! देवस्स केवतियं कालं ठिती पन्नत्ता ? गोयमा ! तेत्तीस सागरोवमाई ठिती पात्ता से यणं भंते ! ततो देवलोगातो कहिं गमिहिति ? कहिं उववजिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति । इति । वृत्तिस्तु सुगमत्वादस्य नास्ति । एतेन च धन्यकेन नवमास पर्यायेण किं योगोद्वहनं कृतं ? एकादशाङ्गी स च श्रूयते एव, तस्मादनागमिकं योगोद्वहनमिति यत्केचित्प्रलपन्ति तच्चाकर्णयितुमर्हम्, यत श्रागमव्यवहारिव्यवहारस्यान्यैरनुगन्तुमशक्यत्वात् । सङ्क्षेपेण तदुद्वहनस्य सम्भाव्यमानत्वादन्यत्र सिद्धान्ते विस्तरतो योगोद्वहनविधेऽभिहितत्वाच्चेति ।
॥ इति श्रीमदकब्बर भूपाल विशालचित्तालवालविवर्द्धितवृपरसाल साला तिशा लिशील श्रीजगद्गुरु भट्टारक श्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनानि अनुत्तरोपपातिकविचारनामा नवमस्तरङ्गः ॥ ६ ॥
रागद्वेषविनिर्मुक्तैर्जिनैर्जनहिताय यः । उपदिष्टः स इष्टानि, वितनोतु जिनागमः ॥ १ ॥ अथ प्रश्नव्याकरणविचारा लिख्यन्ते
ननु आत्मनि प्रमाणाभावः, प्रत्यक्षादिप्रमाणचतुष्टयाविषयत्वात् । न च घटमहं जानामीत्याद्यहप्रत्ययनिर्णितोऽयमिति अस्याऽतात्विकत्वात्, इतरथा गौरोऽहं स्थूलोऽहमित्यादिप्रत्ययस्य तात्विकत्वापत्यात्मनि स्थूलत्वाद्यापत्तेः हसनजल्पनादिचेष्टाश्रमाः कायाकारपरिणभूतपञ्चकोत्था खदिरताम्बूलचूर्णक्रमुकसंयोगोत्पन्नरागवदित्यादिनास्तिकमतनिराचिकीर्षया परमिथ्यात्विमतनिराचिकीर्षया चागमो लिख्यते
inal
For Private & Personal Use Only
रत्नाकरः
॥ ७४ ॥
www.jainelibrary.org